SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४८१ मिति। यद्यपि लोलूयमिति प्रतीकमुपादाय एकाक्षु धातुषु लित्स्वरस्यास्य च धातुविषये फलभेदः । नित्यादि रित्यादौ न तद्भेदः, उभयथापि प्रकृतेरादेरेवोदात्तत्वात् , अतस्तत्र परसप्तम्येव । एवञ्च 'गर्गाः' इत्यादौ 'न लुमते'ति निषेधा. देव न दोष इति । पथिमथ्यर्थमपि वचनं नावश्यकम् । ननु सूत्रद्वये 'रितः' 'चल' इति षष्ठीनिर्देश एवास्तु, कि परिभाषयेति चन, लाघवार्थत्वात् । ननु 'चतुरः शसी'त्यत्र फलभेदस्य स्पष्टत्वेन पक्षद्वयेऽपि एतत्परिभाषाप्रवृत्तिदुर्वारा। तथा च शस एवोदात्तत्वं स्यादिति चेन्न, 'चतुरः शस' इत्येव वक्तव्ये मध्ये विजातीयसप्तम्यन्तपाठेन तदप्रवृत्तेरित्याहुः इदं चिन्त्यम् 'उपमा' 'सज्ञाया'मिति सूत्रस्थभाष्यविरोधात् । किंच 'सर्वस्य सुपी'त्यत्राऽप्येवं सति तदन्तसप्तमी न स्यात् । तथा च 'नजुमते'ति निषेधापत्तौ सर्वस्तोमाऽसिद्धिः। 'चतुरः शसी'त्यस्याऽपि लाघवार्थताया वक्तुं शक्यत्वाच । 'न लुमता' इति सूत्रस्थभाष्यन्तु लुमति प्रतिषेधे एकपदखरस्योपसङ्ग्यानं सर्वामन्त्रितसिज्लुक्खरवर्जम् , प्रयोजनं निनिकिल्लुक्खराः, पथिमथोः सर्वनामस्थाने लुकी ति वार्तिकव्याख्यानपरम् । 'उपमान'मिति सूत्रस्थन्तु तत्प्रत्याख्यानपरमिति न तयोविरोधः । इमानि च वार्तिकानि-'नलुमताङ्गस्येत्यत्राऽजाधिकारः प्रतिनिर्दिश्यते' इति पक्ष इव 'प्रत्यये परतः पूर्वस्य कार्यमात्रे प्रतिषेध' इति पक्षेऽप्यावश्यकानि. सौवरीणां सप्तमीनान्तदन्तसप्तमीत्वात् । 'उत्तरपदत्वे चाऽपदादिविधौ' इतिवत् । "निन्नित्किस्वरस्याऽनानत्वात् प्रतिषेधाऽप्राप्ति'रिति कैयटस्तूपलक्षणम् । इह 'किचि. दङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति, किञ्चिच्चाऽन्यत्र न भवतीति सूत्रशेषस्थभाष्ये । 'किञ्चिच्चे'तिशब्देनाहर्ददातीत्यत्राऽसुपीति प्रतिषेधो ग्राह्य इति न कश्चिद्भाष्यविरोधः । 'किञ्चिच्चे'ति प्रतीके निभित्किखरा इति कैयट उपलक्षणतया व्याख्येय इति सुधियो विभावयन्तु । लिति। अत्राभ्यस्तानामिति न सम्बध्यते, छलो लित्करणात् । चिकीर्षक इति। अत्र परत्वादल्लोपः । न च स्वरो नित्यः, शब्दान्तरस्य प्राप्त्या तस्याऽनित्यत्वात् । लोपोऽप्यनित्यः, स्वरभिनस्य प्राप्तः । स्वर. दीर्घयलोपेषु लोपाऽजादेशस्य स्थानिवत्त्वनिषेधादीकार उदात्तः। आदिण। अभ्य. स्तानामिति । 'णमुली त्यस्य 'सौवर्य' इति न्यायेन तदन्तसप्तमीत्व एतत्पञ्चम्या विपरिणम्यते। अभ्यस्त्रात्परो यो णमुल् तदन्ते पादिरुदात्त इत्यर्थः । तेन जागरंजागरम् , लोलुयं-लोलूयमित्यादेः सिद्धिः। लोलूयिष-लोलूयिषमित्यादौ च नातिप्रसङ्गः । लोलूयं लोलूयमित्यादावल्लोपस्य स्थानिवत्वन्तु न, खरे तनिषधात् । एवञ्च विशेषाऽ. भावमभिप्रेत्य परसप्तम्येव मूले उक्का । अभ्यस्तानामिति किम् ? कण्डूयंकण्डूयम् । एतेन 'अमैवेति सूत्रे 'उचैःकार'मित्युदाहरणेऽस्योपन्यासो हरदत्तकृतश्चिन्त्यः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy