________________
४८० ] सिद्धान्तकौमुदी। [धातुस्वरस्याम् । (६-१-१६४ ) अभ्यस्तानामादिरुहात्तो वा णमुलि परे । लोलूयंलिदन्तस्य स्वरो न शङ्कनीयः । चिकीर्षक इति । चिकीर्षेति । सन्नन्तागण्वुल तस्याकादेशः। सनोऽतो लोपः । ककारेकार उदात्तः । नचाल्लोपस्य स्थानिवत्त्वम् । स्वरविधौ तनिषेधात् । क्वचित्पुस्तके भौरिकिविधम् । ऐषुकारिभक्तमिति दृश्यते । तत्र 'भौरिक्यायैषुकार्यादिभ्यो विधल्भकलौ' इति 'विषयो देशे' इत्यस्मिन्नथें यथाक्रम भौरिकिशब्दादेषुकारिशब्दाच्च विधल्भक्तलौ ज्ञेयौ। आदिर्णमुलि। अभ्यस्ताना'सौवर्यः सप्तम्यस्तदन्तसप्तम्यः' इति ज्ञापनार्थत्वात् । प्रत्ययादिति पञ्चम्योत्तराङ्गविकलपरिभाषाप्रवृत्त्याऽव्यवहितपूर्वस्य कार्यिण एष पूर्वशब्देन ग्रहणान दोषः । इदच्च ज्ञापकस्य विशेषाऽपेक्षत्वानिर्दिष्टपरिभाषाविषय एव प्रवर्तते । अत एव 'रिक्त विभाषे'. त्यादौ न दोषः । तत्र हि-पूर्वोत्तरसाहचर्यान्न परिभाषाविषयः । वस्तुतः 'षष्ठयर्थे सप्तमी'त्येव ज्ञाप्यते । तदन्तविधिस्तु 'येन विधि'रिति परिभाषया न्यायसिद्धः। 'चतुरः शसी'त्यत्र च यथा नाऽस्या: प्रवृत्तिस्तथा वक्ष्यते । अत्र बह्वः-इदं सामान्या. पेक्षम् , तेन 'नित्यादिरित्यादावपि प्रवृत्तिः । न चैवं 'गर्गाः' इत्यादौ 'योश्च'ति, लुकि आयुदात्तत्वप्रसङ्गः, इत्पदघटितेऽनुबन्धनिमित्तस्वरे कर्तव्ये आङ्गत्वाऽभावेऽपि [ प्रत्यये परतः पूर्वकार्यत्वाऽभावेऽपि ] 'लुमता लुप्ते प्रत्ययलक्षणं नास्ती'त्यर्थस्य 'संज्ञायामुपमान'मित्यनेन ज्ञापनान्न दोषः । तद्धि चञ्चेत्यादावाद्युदात्तत्वाय । अन्यथा कनो लुपि प्रत्ययलक्षणेन 'नित्यादि'रित्येव सिद्ध तद्वैयर्थं स्पष्टमेव । अत एव 'अत्रयः' इत्यत्र ढको लुकि न दोषः। वस्तुतः 'अत्रयः' इत्यादौ न दोषः, कार्थिणोऽभावेन प्रत्ययलक्षणाऽप्रवृत्तेः । प्रत्ययलक्षणेन हि तनिमित्तमन्यस्य कार्यमतिदिश्यते न तु तस्यैव स्थानिवत्त्वं प्रतिपाद्यते, असतः प्रसाऽभावेन स्थानिवत्त्वबाधात् । अत एव नखभिन्न इत्यादावसादिकं न । 'मा हि दाता'मित्यादौ 'आदिः सिच' इत्यस्य प्रवृत्तये'इत्पदघटिते'ति । पथिप्रियो मथिप्रिय इत्यत्र च 'पथिमथोः सर्वनामस्थाने' इत्येतस्वरनिवृत्त्यर्थ 'न लुमताऽस्येति सूत्रभाष्यपठितम्- 'अत्र लुमता लुप्ते प्रत्ययलक्षणं नेष्यते' इति वचनमेव शरणम् । यदि प्रागुक्तं ज्ञापक-'कचित्स्वरे कर्तव्ये प्रत्ययलक्षणं नेत्येव, 'क्वचि'दित्युक्त्या च 'आमन्त्रितस्य च' 'सर्वस्य सुपी'त्यादौ न दोष इत्युच्यते तदा न काचिद्दोषशङ्केति वदन्ति । केचित्तु विशेषापेक्षमेतत्-यत्र तदन्तप्रहणसत्त्वाऽसत्त्वाभ्यां स्वराश्रयकार्यिभेदस्तत्रैवैतत्प्रवृत्तिरिति । 'भीही'त्यत्र हि पूर्वग्रहणाऽभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामलोन्त्यस्य भवन्नुदात्तः प्रत्ययाऽन्त्यस्य स्यात् । सप्तम्यर्थपुरस्कारे तु पितमपहाय भ्यादीनामेवोदात्तः स्या. दिति स्पष्टस्तद्भेदः । 'उपोत्तमं रिति' 'चङयन्यतरस्या'मित्यत्रापि दारिद्र