________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४७६ १६३) प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः । ३६७७ आदिर्णमुल्यन्यतरदिति । जन जनने, धन धान्ये । श्राभ्यां लेट् तिप् ‘इतश्च' इतीकारलोपः 'लेटोऽ. डाटौ' इत्यत् । दरिद्राति। जागर्ति। पिति किम् । दरिद्रति । अत्र परत्वादाकारलोपे कृते इकारस्योदात्तत्वं मा भूत् । ननु पूर्वग्रहणं व्यर्थ प्रत्यये पितीत्येवोक्ते 'तस्मिन्निति निर्दिष्टे' इति पूर्वस्यैव भविष्यति । न च पितः पूर्वमेव कार्यभाग्यथा स्यात् पिदन्तं मा भूदित्येवमर्थं तदिति वाच्यम् । कथं पुनः सप्तमीनिर्देश तदन्तस्य प्रसङ्गः । एतदेव ज्ञापयति सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति । तेन 'उपोत्तमं रिति' रित्प्रत्ययान्ते उपोत्तममुदात्तं भवति । चङयन्यतरस्यां चङन्तस्येत्यर्थो न तु रिति परतश्चङि परत इति। नन्वेवं चतुरः शसि' इत्यत्रापि शसन्तस्य प्राप्नोति शस्ग्रहणसामर्थ्यान्न भविष्यति। यदि हि 'चतुरः शसि' इत्यनेन शस उदात्तत्वमिष्टं स्यात्तत 'ऊडिदंपदात्' इत्यस्यानन्तरं चतुरश्चेत्येव ब्रूयात् । तत्रासर्वनामस्थानग्रहणानुवृत्त्या 'षत्रिचतुभ्यो हलादिः' इति हलादेरुदात्तविधानाच्च शस एव भविष्यति । लिति । पूर्वसूत्रात्प्रत्ययात्पूर्वमिति वर्तते । तदाह प्रत्ययात्पूर्वमिति । तेन स्वरविधौ सप्तम्यास्तदन्तत्वज्ञापनात् अत्र ‘लसार्वधातुक'मिति मण्डूकप्जुल्या संबध्यते। ममत्त्विति । मदी हर्ष इत्यस्य श्यन्विकरणत्वेऽपि छान्दसः शप श्लुः । भ्यादीनां किम् ? ददाति । अनुदात्ते चेति तु 'मिमीते' इत्यादौ सावकाशम् । तत्र हि माडो छित्त्वाल्लसार्वधातु कानुदात्तत्वम् । अभ्यस्तानां किम् ? मायति । [सार्वधातुके किम् ? बेभीयात् । यङलुगन्तादाशीलिङि] । पिति किम् ? जागृतम् । लसार्वधातुक इति स्पष्टार्थम् । ननु प्रत्ययादिति किमर्थम् , भ्यादिभ्यः परस्य पितः प्रत्ययस्यैव सम्भवादिति चेन्न, प्रत्ययात्पूर्व एवोदात्तो यथा स्यात् , सङ्घात उदात्तो माभूदिति । न चोदात्तत्वादीनामज्धर्मत्वेन 'पितीति सप्तम्या निर्दिष्टपरिभाषाप्रवृत्त्या अलोऽन्त्यपरिभाषाया चाऽन्त्य त्यैव भविष्यतीति वाच्यम् , 'खरविधौ सङ्घातः कार्थी'त्यर्थस्यापि ज्ञापनात् । एवञ्च 'अलोन्त्यस्य' त्यादीनामप्रवृत्तिः। अत एव 'कर्षाऽऽत्वतः' इति सूत्रेऽन्तग्रहणं चरितार्थम् । यद्यप्यनेकोदात्तानां न योगपद्यम् , युगपद्ग्रहणात् , तथापि पर्यायेण सर्वेषां स्यात् , तदभावार्थ प्रत्ययादिति चरितार्थम, तेन ‘ासीनः' इत्यादौ 'चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेने'ति सिद्धम् । अन्यथा चित्त्वेनाऽन्तोदात्तत्वमनुदात्तत्वञ्चादेरित्यसम्भवाऽभावाद्विप्रतिषेधोऽसङ्गतः स्यादिति दिः । नन्वेवमपि 'प्रत्यये पिती'तित्येवोच्यता किं पूर्वग्रहणेन ? नचाऽभ्यस्तानां लसार्वधातुके इत्यनुवृत्त्या पितोऽप्रत्ययस्याऽसम्भवेन प्रत्यय इति व्यर्थमिति वाच्यम्, पूर्वोक्तार्थज्ञापनार्थमावश्यकत्वात् । 'प्रत्यय' इत्युक्तौ तु सामर्थ्यानिर्दिष्टपरिभाषायाः पुनः प्रवृत्त्याऽव्यवहितस्यैव ग्रहणमिति न दोष इति चेन्न,