SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४७८ ] सिद्धान्तकौमुदी। [धातुस्वर१-१८६) अनिटयजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु । परस्वाचिरस्वरमयं बाधते । दधाना इन्द्रे । ३६७४ अनुदात्ते च। (६-१-१६० ) अविद्यमानोदात्ते सार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दास रत्न द्रविणं च दाशुषे । ३६७५ भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति । (६-१-१६२) भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति । ममत्तु नः परिउमा। जजनत् । माता यद्वीरं धनत् । जागर्षि त्वम् । ३६७६ लिति । (६-१संबद्धमन्यतरस्यांग्रहणमनुवर्तेत । अचि किम् । दद्यात् । अनिटि किम् । जक्षिथ । ये ददतीति । डुदाञ् दाने लटि मिः। तस्य 'अदभ्यस्तात्' इत्यदादेशः । 'नाभ्यस्तयो:-' इत्यालोपः । चित्स्वरमिति । 'चितः' इत्यनेन विहितमन्तोदात्तस्वरमित्यर्थः । दधानेति । लटः शानजादेशः। अनुदात्ते च । न विद्यते उदात्तो यस्मिन्निति बहुव्रीहिस्तदाह अविद्यमानेत्यादि । अन्यथा हि शास्त्रीयेऽनुदात्ते गृह्यमाणे मा हि स्म दद्यादित्यत्र नित्यत्वादन्तरङ्गस्वादा इकारलोपे कृते श्रायुदात्तत्वं न स्यात् । बहुव्रीहौ विज्ञाते तु भवति। हिशब्दो 'हि च' इति निघातनिषेधार्थः । भीह्री । श्राद्युदात्तस्यापवादोऽयम् , तत्र मदिर्दिवादिः । दरिद्राजाग्रावदादी । अन्ये तु जुहोत्यादयः। उदाहरणानि-बिभेति जिहेति बिभर्ति। 'भृनामित्' इत्यभ्यासस्येत्वम् । ममत्त्विति । मदेर्लोट् 'बहुलं छन्दसि' इति शपः श्लुः । जजनत , दधनइदं सूत्रं 'जक्षती'त्यत्र झिनिमित्तनिघाते प्राप्ते आद्युदात्तार्थम् । अनुदात्ते च । अच्यनिटीति निवृत्तम् । अनुदात्त इति बहुव्रीहिरित्याह अविद्यमानेति । अत एव 'मा हि स्म दौदित्यादौ नित्यत्वादिकारलोपे कृतेऽप्ययं स्वरः प्रवर्तत एव । अभ्यस्तानामिति किम् ? ऊर्णोति । चकास्तीत्यादावाद्युदात्तार्थमिदम् । ददातीत्यत्राऽप्य. न्तरगत्वात्पूर्वं धातुस्वरेऽन्तोदात्ते ततो द्वित्वे शेषनिघातेनोभयोरन्तोदात्तत्वाऽभावेऽपि पर्यायणोभयोस्तत्त्वप्राप्ताविदम् । स्पष्टा चेयं रीतिः 'परस्मैपदाना'मिति सूत्रे भाष्ये । न च धातोरित्यस्यायुदात्तप्रकरणपाठेनाद्युदात्तविधायकत्वेऽनुदात्ते चेति न कर्तव्यमिति धातोरिति सूत्रस्थभाष्यमसङ्गतम् , त्वदीत्या तस्यायुदात्तविधायकत्वेप्यस्यावश्यकत्वादिति वाच्यम् , स्थाने द्विवचनमाश्रित्य पूर्वपक्षिणा तथोक्तावपि पक्षद्वयेऽपि कर्तव्यत्वाभिप्रायेण 'क्रियते न्यास एवेति सिद्धान्त्युक्त्या दोषाऽभावात् । अस्य धातोरित्यत्रान्तग्रहणानुवृत्तिज्ञापकतापरकैयटस्तु चिन्त्य एवेत्यन्यत्र विस्तरः । भीही।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy