________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता
[४७७ असि सत्यः । ३६७२ स्वपादिहिंसामच्यनिटि । (६-१-१८८) स्वपादीनां हिंसेश्चानिटयजादौ सार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादि. रदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । विडत्ये. वेष्यते । नेह, स्वपानि । हिनसानि। ३६७३ अभ्यस्तानामादिः। (६'कर्षात्त्वतः-' इत्यत अन्तउदात्त इत्यनुवर्तते । तदाह अन्त उदात्त इति । गोपायेति । यक राकारस्योदात्तत्वे तमित्यस्य 'तास्यनुदात्तेत्-' इत्यनुदात्तत्वे 'उदा. त्तादनुदात्तस्य-' इ ते खरितः । 'बहुवचनस्य वनसौ' इति नसादशस्य, 'स्वरिता. त्संहितायाम्-' इति प्रचयापरपर्याया एकश्रुतिः। असीति । अस्तेः सिप् 'तासस्त्योः -' इति सलोपः । अकारस्योदात्तत्वम् । ततः परस्य स्वरितः। सत्यशब्दे सकारस्य' 'उदात्तस्वरितपरस्य' इत्यनुदात्ततरादेशः । स्वपादि । 'तास्यनुदात्तेत्-' इत्यतो लसार्वधातुकमित्यनुवर्तते तदच्यनिटीति संबन्धादिदं सप्तम्यन्तं संपद्यते । तदाह अनिट्यजादावित्यादि । अदाद्यन्तर्गण इति । श्रा गणान्तादिति भावः । हिंसन्तीति । हिसि हिंसायां रुधादिः । श्रान लोपः' । 'श्नसोरल्लोपः। कित्येवेष्यत इति । वृत्त्यनुरोधादेतदुक्तम् । भाष्ये तु प्रायेणेदं न दृश्यते । एवं च हिनसा. नीत्यत्रायुदात्तत्वमणि पक्षे भवति । यदि तु श्रायुदात्तत्वं पक्षे नेष्यते तर्हि व्यवस्थित. विमाषाश्रयणान्न। केचित्तु स्वपानीत्यत्रैतदभावे धातुस्वरेणाद्यदात्तत्वमेवेति विशेषाभावादयं विधिर्न प्रवर्तते तत्साहचर्यादिनसानीत्यत्राप्ययं न प्रवर्तते इति वृत्तिकाराशयं कल्पयन्ति । हिनन्सानीति । अत्र श्नमः 'तन्मध्यपतितस्त द्ग्रहणेन गृह्यते' इति न्यायाद् धातुग्रहणे नकाराकार उदात्तः। ततः परस्य खरितत्वम् । अनिटि किम् । खपितः । 'रुदादिभ्यः सार्वधातुक' इतोट। अभ्यस्तानाम् । 'अादिः सिचोऽन्य. तरस्याम्' इत्यत आदिरिति वर्तमाने पुनरादिप्रहणं नित्यार्थम् । अन्यथाऽदिग्रहणत्वाद्धातुस्वरानाह धातोः । 'कर्षात्वतः' इत्यतोऽन्त उदात्त इति वर्त्तते । गोपायतमिति । गुपेरन्तोद त्तादयः । तदन्तमप्यन्तोदात्तम् । एकाक्ष्वपि व्यपदेशिवद्भावादस्य प्रवृत्तेः । येऽपि उपदेशेऽनुदात्ताः पचादयस्तेष्वप्ययं विधिः, अनुदात्तोपदेशस्येपिनषेधविधौ चारितार्थ्यात् । पिबाद्यादेशानामाद्युदात्तत्वनिपातनसामर्थ्यात्तेषु नाऽयं विधिः। स्वपादि । अदादिषु श्रागणान्तात् स्वपादयः। 'लसार्वधातुक मित्यस्य सप्तम्या विपरिणामः, 'अच्यनिटी'ति सप्तमीदर्शनात् । अनिटीति किम् ? स्वपितः । अचीति किम् ? स्वप्यात् । लेति किम् ? चानशि-स्वपानः । सार्वधातुकेति किम् ? सुषुपतुः । विङत्येवेति । नैतद्भाष्ये दृष्टम् । अभ्यास्तानामादिः । श्रादिरियनुवर्तमाने पुनरादिप्रहरणं नित्यार्थम् । अचीति किम् ? दद्यात् । अनिटीति किम् ? जक्षिय