________________
४७६ ]
सिद्धान्तकौमुदी ।
[ धातुस्वर
३६७० अनुदात्तं च । ( ८-१-३) द्विरुक्रस्य परं रूपमनुदात्तं स्यात् । दिवेदिवे' । इति साधारणस्वराः ।
अथ धातुस्वराः ।
३६७१ धातोः । ( ६-१-१६२ ) अन्त उदात्तः स्यात् । गोपायतं नः । ‘तिङ्ङतिङः' इति निघातः । स्वरिति । न्यस्वरौ स्वरिताविति स्वरितः तस्मिन् परे यकारस्य सन्नतरः । साधारणस्वरा इति । एकस्मिन् पदे पदद्वयेऽपि च वर्तमानत्वात्साधारण्यम् । 'आद्यदात्तश्च' 'ज्नित्यादिर्नित्यम्' इत्यादयस्तु एकस्मिन्नेव पदे वर्धमानत्वान्न साधारणाः ।
प्रकृतिर्द्विधा । धातुः प्रातिपदिकं च । तत्र धातुस्वरानाह धातोरिति । र्विधीयते । एवमनुदात्तत्वे एकश्रुत्यनुवृत्त्यैव सिद्धे सन्नतरग्रह्णमनर्थकम् । तस्मादुदात्तानुदात्तयोर्भेदतिरोधानमेकश्रुति 'रिति । अन्त्यमते 'उचैर्दृवे 'ति प्रतीकमुपादाय सोमस्याने वीही वौष' डिति मन्त्रे यज्ञकर्मणीत्येकश्रुतौ प्राप्तायां तदपेक्षया वौषट्ाब्दस्योदात्ततरत्वं विधीयते । सति चैकश्रुते रुदात्ताऽनुरागे तदपेक्षः प्रकर्षो युज्यते । यथा मलिने वस्त्रे शौक्लपानुरागे तदपेक्षो वस्त्रान्तरे शुक्लतरव्यपदेशः । 'सन्नं दृष्वेति' । एकश्रुतिगतमित्यर्थः । एवन पक्षद्वयेऽपि स्वभाविकोदात्तानुदासापेक्षायोदाशतरानुदात्ततरयोर्न कश्चिच्छुनौ विशेषः, नाऽप्युच्चारणे यत्नविशेष इति लभ्यते । सप्तस्वरगणनायामपि भाष्ये उदात्ततरानुदात्ततरौ एकश्रुतिगतोदात्ताद्यपेक्षयैवातिशयविशिष्टौ बोध्यौ । अनुदात्तस्य च तद्विधानन्त्वेकश्रुतिबाधनार्थम् । यत्त्वेकश्रुतेः स्थाने सन्नतरविधानमिति, तन्न, मानाऽभावात् । किंचैकश्रुतिपदस्य षष्ठयन्तत्वकल्पने न मानम् । अपि चैकश्रुतिशब्दस्य स्त्रीलिङ्गत्वेन 'स्वरितपरस्ये 'ति लिङ्गविरोधः । एकश्चैकश्रुतिविषये एवास्य विधानमिति 'अभि कन्ये "त्यादावपि सन्नतरापत्तिरित्यपास्तम् । श्रनुदात्तानामित्युपक्रमात्सर्वेषां माभूदन्त्यस्यैव यथा स्यादित्यर्थं परप्रहणम् । नन्वेवं सति नवसूत्र्याः शास्त्रान्ते उत्कर्षेणाऽसिद्धत्वाद्गङ्गे इत्यादिवत्सरस्वतीकारस्यापि पूर्वेणैकश्रुतिः प्राप्नोति, मम तु न दोषः । तस्या एव स्थाने सन्नतरविधानादिति चेन्न । अत्र पाठेन परस्परं प्रतिनवसूत्र्या श्रसिद्धत्वाऽभावबोधनात् । अन्यं प्रति त्वसिद्धत्वमस्त्येव । एतेनाऽयं सन्नतर एकश्रुतेरिव 'उदात्तादनुदात्तस्ये 'ति स्वरितस्यापि परत्वाद्वाधकः स्यादिति 'नोदात्तस्वरितोदय' मिति सूत्रं व्यर्थ स्यादिति परास्तमित्याहुः । शुतुद्रीति । आमन्त्रितत्वेऽपि पादादित्वान्न निहतम् । इति साधारणस्वराः ।
अथ धातुखराः । प्रकृतिर्द्विधा - धातुः प्रातिपदिकञ्च । तत्रादौ सर्वमूल
1
2
G