________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता । [४७५ परस्य सन्नतरः। (१-२-४०) उदात्तस्वरिती परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् । सरस्वति शुद्रि व्यचक्षयरस्वः 'तस्य परमानेडितम्' (८३ )। बहूनां तु मूल एव दर्शितम् । इमं मे इति । इदम्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः। विभक्तिरनुदात्ता । त्वदाद्यत्वे अमि पूर्वः' एकादेश उदात्तः । मे इत्यनुदात्तम् । 'अनुदात्तं सर्वमपादादौ' इत्यधिकारात्तस्य 'उदात्तादनुदात्तस्य स्वरितः । तस्मात्परेषां गङ्गे. प्रभृतीनामुदात्तानामे कश्रुतिः। सवे एते आमन्त्रितनिघातानुदाताः। ननु मे इत्यस्य स्वरितस्य उदात्तविधायकं प्रति त्रिपादीस्थत्वादसिद्धत्वं स्यात् । न च स्वरितादित्या. श्रयात्सिद्धम् । 'क्क वः सुम्ना- इत्यादौ चरितार्थत्वादिति चेन्मैवम्। 'तस्यादितः-' इत्यारभ्य नवसूत्र्यस्वस्थानादुत्कृष्य शास्त्रान्ते भाष्यवार्तिकयोनिवेशात्। 'न सुब्रह्मएयायाम्-' इति सूत्रे स्वरितस्य तूदात्त इति वदता एव काण्डोत्कर्षस्य ज्ञापितत्वाच्च । न च सुब्रह्मण्योमिति सिद्धः स्वरितोऽस्तीति वाच्यम् । तत्र 'एकादेश उदात्तेन-' इति सूत्रप्रवृत्तेरावश्यकत्वात् । तत्र ह्यनुदात्तस्य प्रहणं नानुवर्तते । उदात्त । सन्नशब्देन नीचैरर्थ उच्यते । तेन त्वनुदात्तत्वं लक्ष्यत इत्याह अनुदात्ततर इति । प्रकर्षस्त्व. न्यानुदात्तापेक्षः । सरस्वतीत्यादि । अत्र मेशब्दमाश्रित्य सरस्वतीत्यस्यामन्त्रितनिघातः । शुतुतिशब्दस्य तु न, पादादित्वात् । 'आमन्त्रितस्य' इति षष्ठेिन शुतुद्रीत्यस्योदात्तं प्रथममक्षरं तस्मिन्परे पूर्वस्य सरस्वतीकारस्य सन्नतरः। व्यचक्षयत्स्व इति । वीति उपसर्गत्वादायुदात्तः। ततः परस्याचक्षयदिति तिङन्तस्य निघातः पदपाठेऽपि सिध्यति । इमं मे इति । मेशब्दोऽनुदात्तः, तस्योदात्तात् परत्वेन स्वरितः । न चाऽस्य स्वरितस्य प्रकृतसूत्रदृष्टयाऽसिद्धत्वम् , न च स्वरितादियाश्रयात्सिद्धत्वम् , 'क वः सुम्ने'त्यादौ चारितार्थ्यादिति वाच्यम्, 'तस्यादित' इत्यादिनवसूत्र्याः स्वस्थानादुत्कृष्य शास्त्रान्ते भगवता निवेशितत्वात् । अत एव 'देवब्रह्मणो रिति सूत्रं सार्थकमित्याहुः । उदात्तस्वरितप । सन्ना-अनुदात्तः । तस्यानुदात्तस्येति । 'एकश्रतिदूरादिति सूत्रस्थभाष्ये 'उदात्तादनुदात्ताऽनुरागवशादेकश्रुतिरुदात्ताऽनुदात्ता वेति सन्दिय, नोदात्ता, 'उच्चस्तरां वा वषट्कारः' इति ज्ञापकात् । अतन्त्रन्तरनिर्देशः । नानुदात्ता, 'उदात्तस्वरितपरस्ये'त्यत्र 'सन्नतर' इति ज्ञापकात् । उतन्त्रं तरनिर्देशः । अपर आह एकश्रुतिरुदात्ता, उच्चस्तरामिति ज्ञापकात् । तन्त्रं तरनिर्देशः, उच्चैदृष्ट्वा उच्चस्तरामित्येतद्भवति । अनुदात्ता च, सन्नतर इति ज्ञापकात , तन्त्रं तरनिर्देशः, 'सन्नं दृष्ट्वा सन्नतर इति भवतीत्युक्तम् । तत्राये ज्ञापकमेवं कैयटेनोक्तं-योकश्रुतिरुदात्ता तदा, वषट्शब्दस्यापि 'यज्ञकमणी'त्येकश्रुतेः सिद्धत्वाद् ‘उच्चैस्त रा'मिति सूत्रं नाऽकरिष्यत् । तेन हि पक्षे उदात्तः, पक्षे एकश्रुति