SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४७४ ] सिद्धान्तकौमुदी । [ साधारण स्वर 'व्येत्यन्तः । षष्ठ्यन्तस्यापि प्राग्वत् । दातेः पिता यजते । * स्यान्तस्योपो त्तमं च । चादन्तखेन द्वावुदात्तौ । गार्ग्यस्य पिता यजते । * वा नामधेयस्य । स्वान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते । ३६६७ देवब्रह्मणोरनुदात्तः । ( १-२-३८) अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवा ब्रह्माण श्रागच्छत । ३६६८ स्वरितात्संहितायामनुदात्तानाम् । ( १-२-३६ ) स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । इमं मे गङ्गे यमुने सरस्वति । ३६६६ उदात्तस्वरितयम्' । अमुष्येति । षष्ठयन्तस्योपलक्षणम् । दातेरिति । दक्षशब्दादपत्येऽत इञ् । अत्रापि ञित्स्वरः प्राप्तः । स्यान्तस्येति । स्येति रूपं विवक्षितं पूर्ववार्तिकारम्भात् । स्यशब्दान्तस्योपोत्तममन्त्यश्चोभयमुदात्तं भवति । देवब्रह्मणो | सुब्रह्मयायामेव देवा ब्रह्माण इति पठ्यते । तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते । देवा ब्रह्माण इति । देवब्रह्मणोर्वैयधिकरण्ये द्वयोरप्याद्यदात्तत्वम् । ततः परस्यानुदात्तस्य स्वरितः । तस्यानेनानुदात्तः । श्रामन्त्रित निघातस्तूत्तरस्य न । पूर्वामन्त्रिताविद्यमानत्वेन पदात्परत्वाभावात् । यदा तु सामानाधिकरण्यं तदा 'विभा षितं विशेषवचने' इति पूर्वस्य पते विद्यमानत्वात् पदात्परत्वाद् ब्रह्माण इत्यस्य निघातोऽपि भवति । अस्मिन् पते देवशब्दे वशब्दस्यैवानेनानुदात्तत्वं विधेयम् । ब्रह्मग्रहणं तु न कर्तव्यम् । स्वरिति । श्रनुदात्तानामिति । जातौ बहुवचनम् ! तेनैकस्य द्वयोर्बहूनां च भवति । एकस्य पचति । द्वयोः । श्रग्निमीळे पुरोहितम् । 1 लक्षणम् । एवममुष्येत्यपि षष्ठयन्तस्य । एतानि वार्तिकानि । गार्ग्य इति । नन्वनान्तस्योदात्तत्वेऽपि अस्याऽसिद्धत्वाच्छेषनिघाताऽभावे गाकारोऽनुदात्तो न स्यादिति चेन्न, इष्टापत्तेः । स्वरितोदात्तयोः समावेशवत्तयोरपि समावेशात् । स्यान्तस्येति । ''ति विवक्षितम्, पूर्ववार्तिकारम्भात् । देवब्रह्मणोः । सुब्रह्मण्यानिगदान्तर्गतयोरित्यर्थः । देवा ब्रह्माण इति । इदं वैकल्पिकं 'देवब्रह्मणोस्तुदात्तत्वमेके' इति माध्यात् । पक्षे त्वेकश्रुतिः, दूरात्संबोधनसत्त्वात् । श्रत एव 'एकश्रतिदूरा' दिति सूत्रे इदमेकश्रुतेरुदाहरणं भाष्ये उक्तम् । स्वरितात्संहितायाम् । अत्रानुदातानामिति बहुत्वमविवक्षितम् । तेन 'अग्निमीळे' इत्यादिसिद्धिः । बहुवचनोच्चारणन्त्वनेकत्वे सर्वेषां यथा स्यात् । अन्यथा तस्मादिति परिभाषयाऽऽद्यस्यैव स्यात् । यदि तु 'स्वरविधौ सङ्घानः कार्थी त्युच्यते तदा स्पष्टार्थम् । संहितायामित्यतज्ज्ञापयति 'अन्यत्र पञ्चमीनिर्देशे कालो न व्यवधायक' इति । तेन 'तिब्ङतिङ' इति .
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy