SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४७३ यथासंप्रदायं व्यवस्था । ३६६६ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः। (१-२-३७) सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि' ( ३६६३) इति 'विभाषा छन्दसि' (३६३५ ) इति च प्राप्ता एकश्रुतिनं स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो३म् । [सुब्रह्मणि साधुरिति यत् । नच 'एकादेश उदात्तेनोदात्ता' (३६५८) इति सिद्ध पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ] * असावित्यन्तः । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गाग्र्यो यजते । नित्वात्प्राप्त प्रायुदात्तोऽनेन बाध्यते । * अमुदात्तः । तत्र भाषायां यद्यकश्रुतिर्न स्यात्तर्हि स्वरभेदे कथमेकवाक्यं व्यर्थ स्यात् । न सु । सुब्रह्मण्याख्ये निगदे इति । अपादबन्धे गदिवर्तते। यथा गद्यमिति निः. शब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ्यते स निगदः । नितरां गद्यते इति कर्माण 'नौ गदनद-' इत्यप् । तस्य च सुब्रह्मण्यशब्दोपलक्षकत्वात् सुब्रह्मण्याशब्दोऽरित्यक्तस्त्रीलिङ्ग एव निगदविशेषस्य नाम । सुब्रह्मण्योमिति । 'तत्र साधुः' इति यत् । 'तित्स्वरितम्', 'यतोऽनावः' इति तु न, तत्र द्यच इत्यनुवृत्तेः टापा सहकादेशः । 'स्थानेऽन्तरतमः' इति स्वरितः ततो निपातत्वादाद्यदात्तेन ओम्शब्देन 'ओमागेश्व' इत्युदात्तस्वरितयोरेकादेशः स्वरित एवेति हरदत्तादयः । असाविति प्रथमान्तस्योपलक्षणम् । तदाह प्रथमान्तस्येति।गार्ग्य इति । 'गर्गादिभ्यो पाठेनाऽदोषादित्याहुः । न सुब्रह्म । ननु विभाषत्यस्य व्यवस्थितविभाषात्वात्स्वरि. तस्य तूदात्त इति ज्ञापकाच्च सुब्रह्मण्यायो तदभावसिद्धौ 'ने'ति व्यर्थमिति चेन, व्यव. हित 'यज्ञकर्मणी' त्यस्यापि निषेधार्थ तत्सत्त्वात् । स्पष्टश्चेदं कात्यायनसूत्रे । तदाह यशेत्यादि । एवञ्चेदं सूत्रं यज्ञकर्मणि, स्वाध्यायकाले च प्रवर्तते इत्याहुः । केचित्तु यज्ञकर्मण्येवास्य प्रवृत्तिः । नेति तु स्पष्टार्थमेव । तेन स्वाध्यायकाले स्वरित एव । 'विभाषा छन्दसीति तु व्यवस्थितविभाषात्वान्न । ततः परेषामनुदात्तनामेकश्रतिश्चेति वदन्ति । सुब्रह्मण्योमिति । सुब्रह्मणि साधुरिति यत् । तित्स्वरितम् । टापा सहकादेशोऽन्तरतमत्वात्स्वरितः । प्रोमिति निपातत्वादाद्युदात्तम् । तेनैकादेशोऽप्यान्तरतम्यात्स्वरितः । 'एकादेश उदात्तेन' इति तु न प्रवर्त्तते, 'अनुदात्तस्ये'त्यस्यानुवृत्तेः । तस्याऽनेनोदात्तः । स्पष्टश्चेदं भाष्ये । 'इन्द्रागच्छे' त्यत्र इन्द्रेत्यामन्त्रितायुदात्तं द्वितीय. वर्णोऽनुदात्तः । स च 'उदात्तादनुदात्तस्येति स्वरितः,तस्यानेनोदात्तः। न चात्र कर्तव्ये स्वरितोऽसिद्धः। एतत्काण्डमुत्कृष्यते' इत्युक्तेः । अत एवाऽस्मिन्नुदात्ते शेषनिघातो न । एवमग्रेप्यूह्यम् । असावितीति । असाविति प्रथमान्तोप
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy