SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४७२ ] सिद्धान्तकौमुदी। [साधारणस्वर. छन्दसि । (१-२-३६) छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम्। संहितायां स्वयंम् । ब्राह्मणे एकश्रुतिवृचानाम् । अन्येषामपि दात्तः । बुसशब्दः । प्रातिपादिकखरेणान्तोदात्तः। अलंबुसशब्दः फिट्सरेणान्तोदिति चेदुच्यते । आवृत्त्या विभाषाऽछन्दसीति पदच्छेदाऽर्थम् । तेन भाषायामपि पाक्षिकैकश्रुतिः । अत एव 'श्वेतो धावति अलम्बुसानां याता' इति द्वयर्थ वाक्यमिति पस्पशान्ते भाष्यं सङ्गच्छते । अत्र श्वेत्यन्तोदात्तः । 'इत' इति 'ऊडिदम , इत्यनेन । 'श्वेत' इति घृतादित्वादन्तोदात्तम् । अलमिति निपातत्वादायुदात्तम्, बुसशब्दोऽन्तोदात्तः, । एवमलम्बुसशब्दोऽपि। एकश्रुत्यभावे हि स्वरभेदे कथमेकं वाक्यं द्वयर्थ स्यादिति बोद्धथम् । अत एव 'दाण्डिनायने ति सूत्रे भाष्ये उक्तम्-'एकश्रुतिः स्वरसर्वनाम' इति । अत एवाभियुक्तानी विरुद्धस्वरकतत्पुरुषबहुव्रीह्याश्रयणेन श्लिष्टकाव्यादिनिर्माण सअच्छते। अत एव काव्यप्रकाशकृता 'वेद इव लोके स्वरोन विशेषावसायहेतु'रित्युक्तम् । एकत्या व्यवहारादिति तदाशयः । किमर्थ तर्हि 'झल्युपोराम'मिति प्रक्रम्य 'विभाषा भाषाया'मिति सूत्रितमिति चेत् , त्रैस्वर्येण प्रक्रमे पाक्षिकानुदा तत्वलाभायेति गृहाण । एतेन 'भाषायां स्वरो नास्त्येवेति भ्राम्यन्तः परास्ताः. स्वरविधौ छन्दोऽधिकाराs भागाचेति दिक् । परे तु-संहितायां त्रैस्वयम् , ब्राह्मणे एकश्रुतिर्बह्वचानाम् । तैत्तिरीया. णामुभयत्रापि त्रैस्वर्यमिति व्यवस्थितविभाषात्वमस्य छन्दसि स्वीकृतं कैश्चित् , तन्न युक्तम्, 'शाच्छो'रिति सूत्रे भाष्ये परिगणितव्यवस्थितविभाषास्वपाठात् । तत्र हि'देवत्रातो गलो प्राह इतियोगे च सद्विधिः। मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रत' इत्युक्तम् । अत एव केषुचिद्देशेषु स्वाध्यायकाले सर्ववेदानामैकश्रुत्येन पाठो दृश्यते । न चैवं छन्दोग्रहणवैयर्थम, छन्दसि त्रैस्वयें धर्माधिक्यम् , लोके तु समते. त्येतदर्थन्तत्सत्त्वात् । त्वयापि छन्दोग्रहणसामर्थ्याद्भाषापेक्षया वैलक्षण्यं कल्प्यं व्यव. स्थितविभाषात्वेन, मया त्वेवमिति विशेषाऽभावात् । न हि छन्दसीत्यनेन त्वदुक्तार्थोs. पि वाच्यवृत्त्या लभ्यते, 'एकश्रुतिः स्वरसर्वनामेति भाष्येणाप्येवं बोधनाच्च । यथा सर्वनामशब्दास्तदादयः सर्वपदस्थाने प्रयुज्यन्ते, एवं सर्वस्वरस्थाने एकश्रुतिः प्रयो. क्लव्येति तदर्थः । अनेन स्पष्टमेव त्रैस्वयकश्रुत्योरैच्छिकविकल्पविषयतोक्ताः । वृत्तिकारोऽपि छन्दसि ऐच्छिकमेवैकश्रुत्यमाह । इदानी केषाश्चिद्धर्माधिक्याय त्रैस्वर्येण पाठः, परपरासंप्रदायेन अन्येषामैकश्रुत्येनेति संप्रदायश्रद्धाजाज्येन तु ते नान्यथा पठन्ति । नैतावता विकल्पस्यैच्छिकत्वमङ्गः । न च 'इन्द्रशत्रुर्वर्धस्वे'त्यूहे यज्ञकर्मणीत्यस्याऽप्रवृत्ती अछन्दसीति च्छेदेन नैकश्रुत्यापत्तिः, धर्माधिक्याय त्रैस्वर्येण ऋत्विग्भिः
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy