SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४७९ श्रोकाराः । गीतिषु सामाख्या । ३६६४ उच्चस्तरां वा वषट्कारः । (१२-२५) यज्ञकर्मणि वौषट्शब्द उच्चस्तरां वा स्यादेकश्रुतिर्वा । ३६६५ विभाषा उच्चस्तराम् । वषटशब्दे नात्र वौषटशब्दो लक्ष्यते समानार्थत्वात् । द्वावपि हि तो देवतासंप्रदानकस्य दानस्ट द्योतको । नन्वेवं प्रतिपत्तिलाघवार्थ वौषट्राब्द एव कुतो नोक इति चेत् , विचित्रा हि सूत्रस्य कृतिः पाणिनः कविदारलाघवमात्रीयते कति प्रतिपत्तिलाघवमिति । ननु वषट्कार इत्यत्र कारप्रययो न स्याद् वर्णनिर्देशे हिस विहित इति चेत्सत्यम् । एतदेव ज्ञापयति समुदायादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धम् । उच्चैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनकियायां वर्तते, तेन क्रियाप्रकर्षादाम् प्रत्यय उदात्ततरो भवतीति फलितोऽर्थः। 'ब्रूहि प्रेष्य' इति सूत्रेण वौषट्शब्दस्यादेः जुत उदात्तो विहितः तदपेक्षयायमुदात्ततरोऽन्यस्य विधी. यते । अन्ये तु स्वार्थिक स्त रबि त्याहुः । विभाषा। वाग्रहणेऽनुवर्तमाने विभाषाग्रहणं अच्छन्दसीति पदच्छेदेन सन्यादिना भाषायामपि विधानार्थम् । अत एव 'श्वेतो धावति' अलंबुसानां यातेति व्यर्थ वाक्यमिति पस्पशान्त भाष्यम् । तत्र श्वेतेति प्रातिपदिकस्वरेणान्तोदात्तम् । इत इति इदंशब्दात्तसिल । 'ऊडिदम्-' इत्यनेन श्वेत इति 'वर्णानां तण-' इत्याद्यदाते प्राप्ते घृतादित्वादन्तोदात्तम् । अलंशब्दो निपातस्याशय. वा यजुषि' इत्युक्तेयजुषि स्वर्यमपि । तत्र प्रवचनशब्देन पाठ उच्यते । तत्र भवो वा स्वरो यजुषि यज्ञकर्मा । त्रैवर्यलक्षण इति तद्भाष्यकृतः। यद्यपि तत् समाख्याबलात्तच्छाखीयानामेव, तथापि अविरुद्धत्वात्मवंशाखां प्रत्येकं कर्मेति न्यायाचाऽन्येषामपि स्वयम् , परन्तु प्रागुक्तकल्पसूत्र-पाणिनिसूत्र-तद्भाष्यादिपर्यालोचनया एकश्रुती धर्माधिक्यं बोध्यम् । 'वैकल्पिकेष्वादितोऽवधारण'मिति न्यायासंकल्पकाले एतदन्यतरोल्लेख श्रावश्यकः । यज्ञशब्देन यजतिचोदनाचोदितानामेव ग्रहणमिति स्मार्तेषु स्थालीपाकोपाकर्मादिप्रयोगेषु नैकश्रुत्यमित्यन्यत्र विस्तरः । उच्चस्तरां वा । अधिकरणशक्तिप्रधानोच्चैःशब्दातद्विशिष्टभवनक्रियाकर्तरि वर्तमानास्क्रियाप्रकर्षे प्रत्ययः । तेनोदात्ततर इत्यर्थः । वषट्शब्देन वौषटशब्दो लक्ष्यते. व्याख्यानात् । तत्रौकारस्य 'ब्रूहिध्ये त्यनेन प्लुतोदात्तत्वविधानात् षकार स्याऽनेन तदपेक्षयोदात्ततरो विधीयत इत्येके । अन्ये तु द्वयोरप्युदात्ततरत्वम् , याज्यावाक्यीयकचरापेक्षया प्रकर्ष इत्याहुः । इदमेव युक्तम् , भाष्यसम्म त्येति बहवः । अस्योदात्तस्य इत उत्कृष्य शास्त्रान्ते कर्तव्यत्वेनोक्तत्वादसिद्धत्वात् , जुनोदात्तत्व स्याऽप्यसिद्धत्वाच्च शेषनिघातो नेति बोद्धयम् । पक्षे एकश्रुतिः । विभाषा छन्दसि । ननु विभाषाग्रहणं व्यर्थम् , वाग्रहणाऽनुवृत्त्यैव सिद्धः । न च 'यज्ञकर्मणी' त्यस्य निवृत्त्यर्थम् , इष्टानुरोधेन व्याख्यानत एव तन्निवृत्तेः सम्भवा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy