________________
४७० ]
सिद्धान्तकौमुदी । [ साधारणस्वर
वस्तु । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश दोर्बसि' इत्याद्यदात्तत्वम् । अग्नेः शब्दस्यामन्त्रित निघातः । वर्चः शब्दोऽसुन्प्रत्ययान्तः । विपूर्वाद् ह्वयतेः 'हृः संप्रसारणं च' इत्यप्रत्ययः । थाथादिसूत्रेणान्तोदात्तत्वम् ।
श्रुतेर्निषेधेऽपि 'विभाषा छन्दसी'ति विकल्पापत्तिरिति वाच्यम्, 'यज्ञकर्मणि जपन्यूङ्खसामसु वा' 'उच्चैस्तरां वा वषट्कारः ' ' विभाषा छन्दसीत्येव सिद्धे नजुच्चारणवैयर्थ्यापत्तेः । यत्तु हरदत्तः - अजपेत्यादिप्रसज्यप्रतिषेधः । नचोहितानामच्छन्दस्त्वात्तत्र सावकाशस्य पूर्वसूत्रस्य मन्त्रेषु परत्वाद् 'विभाषा छन्दसीत्यनेन बाधः स्यादिति वाच्यम्, 'यज्ञकर्मणी'ति कर्मग्रहणसामर्थ्यादूहिताऽनू हितेषु सर्वेषु पूर्वस्यैव प्रवृत्तेरिति तन्न, पर्युदासस्य लघुत्वात् । अत एव 'इन्द्रशत्रुर्वर्द्ध स्वेत्यत्र समासान्तोदात्तत्वे कर्त्तव्ये पूर्वपदप्रकृतिस्वरत्वं प्रयुक्तमिति शतपथब्राह्मणतद्भाष्यायुक्तं सङ्गच्छते । एवं हि तद्ब्राह्मणम्-'अथ यदब्रवीदिन्द्र॑शत्रुर्वर्धस्वे 'ति तस्मादुद्देनमिन्द्र एव जघान । अथ यद्ध शश्वदवदयदिन्द्रस्य श॒त्रुर्व' स्वेति शश्वदुह स एवेन्द्रमहनिष्य' दिति । श्रद्येऽनुकरणं पूर्वपदप्रकृतिस्वर विशिष्टस्य, अन्त्ये त्वेतदर्थकमन्तोदात्तम् । यद्यवक्ष्यदित्यर्थ इति तद्भायम् । अत एव महाभाष्ये 'मन्त्रो हीनः' इति पठितोऽपि श्लोको 'दुष्टः शब्द' इति पठितः । एवञ्च 'इषे त्वा' इत्यादियजुर्मन्त्रेषु शाखाच्छेदनादिकरणेषु एकश्रुतिरेव भवति । एतेन -'पर्युदासेऽपि यज्ञाऽङ्गशब्दत्वेन सादृश्यम् । एवञ्चोहविषये चरितार्थस्याsस्य मन्त्रेषु परत्वा' द्विभाषा छन्दसी' त्यनेन बाधः । सा च व्यवस्थितविभाषा, अतो नातिप्रसङ्गः । श्रत एव बह्वचानां संहितायां त्रैस्वर्यम्, ब्राह्मणे ऐकश्रुत्यम्, तैत्तिरीयाणामुभयत्रापि त्रैस्वर्यमिति व्यवस्था संहृच्छते । एवञ्च हौत्रमन्त्रेष्वेकश्रुतिरेव । 'इषेत्वे' त्यादौ यजुषि त्रैस्वर्थमेव । अत एव 'सकलदेशीय शिष्टाचारविरोधोपि न'इति परास्तम् । ऊद्देषु चरितार्थस्य मन्त्रेषु बाध, उत मन्त्रेषु चरितार्थस्याऽछन्दसि 'विभाषे 'त्यनेन ऊहेषु बाध इत्यत्र विनिगमनाविरहेणास्य विभाषा छन्दसीत्येतदपवादकताया एव युक्तत्वाच्च । श्रत एव कात्यायनेन 'मन्त्रे स्वरक्रिया यथाऽऽन्नातमविशेषा' दिति पूर्वपक्षे 'तानो वा नित्यत्वात् स्मर्यते चैवम् एकश्रुतिदूरात्संबुद्धौ यज्ञकर्मणि सुब्रह्मण्या - साम-जप-न्यूङ्ख-याजमानवर्ज' मित्युक्तम् । श्रत्र वाशब्दः पक्षव्यावृत्तौ । तान एवेत्यर्थ: । 'तान एकश्रुति'रिति तद्भाष्यकृतः । यत्तु सूत्रस्थं वाशब्दं विकल्पार्थकमाहुस्तेषां नित्यत्वादिति वाक्यशेषविशेषः । तस्माद्यजुष्यप्येकश्रुतिरेव । चत्र सूत्रे जपादिप्रहणं याजमानमन्त्राणामप्युपलक्षणम्, कात्यायनसूत्रस्वरसात् । वस्तुतः कात्यायनप्रातिशाख्ये 'तानलक्षणमेकं स्वरमाहुर्यज्ञकर्मणि सामजपन्यूजवर्जम्, प्रवचनो
"