________________
प्रकरणम् ] सुबोधिनी शेखरसहिता। [४६६ यज्ञक्रियायां मन्त्र एकभुतिः स्याज्जयादीन्वर्जयित्वा । अनि दिवः ककुत्। यज्ञेति किम्-स्वाध्याय काले त्रैस्वर्यमेव । अजपेति किम्-माग्ने वर्षो विहवे. त्रैस्वर्यमेव भवति । तत्र 'श्राङासर्गाश्चाभिवर्जम्' इत्याद्युदात्तः । गच्छेति तिचन्तस्य निघातः । भोगशब्दो 'नेपाता आद्युदात्ताः' इत्याद्यदात्तः । शेषस्यामन्त्रितनिघातः । यज्ञ । त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्ते एकश्रुतिविधीयते । मन्त्र इति । एतच्चाजपेति पर्युदासाल्लभ्यते तेनोहादिषु न। अत एव स्वाहेन्द्रशत्रुर्वर्धस्वेति ममासान्तोदात्त वे कर्तव्ये श्राद्यदात्तं प्रयुक्तमिति प्रसिद्धिः । जपादीनिति । जपावसामानी यर्थः । अग्निर्मूर्धति । 'अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वतोम् ३' 'अङ्गेनिनलोपश्च' इति अग्नि शब्दः प्रत्ययस्वरेण फिट्स्वरेण वान्तोदात्तः । 'मुर्वी बन्धने' 'कनिन् युषितक्षिरा. जिधन्वि' इत्यतः कनिनि वर्तमाने 'श्वन्नुक्षन्पूषन्' इत्यत्र मूर्धन्शब्दः कनिन् प्रत्य. यान्तोऽन्तोदात्तो निपातितः। दिवशब्दात्परस्य षष्ठेयकवचनस्य 'ऊडिदम्पदात्' इत्यु. दात्तत्वम् । ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदात्तः। पातेर्डतिः । पतिशब्दः प्रत्यय. स्वरेणाद्यदात्तः । 'प्रथेः षिवन् संप्रसारणं च' षित्वान्ङीष् । षष्ठयेकवचनस्य 'उदात्तयणो हलपूर्वात्' इत्युदात्तत्वम् । इदम्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः। प्राप्नोतेः क्विप ह्रस्वश्च । 'ऊडिदम' इति विभक्केरुदात्तत्वम् । रीसृजिभ्यां तुडवेयसुन्प्रत्ययः नित्स्वरेणाद्यदात्तो रेतःशब्दः । जिन्वतीति। जिन्वतेः प्रीणनार्थस्य तिपि 'तिकतिङः' इति निघातः । 'प्रणवष्टेः' इति प्रयोगकाले प्रणवः। ममेत्यादि । 'युष्मदस्मच्छेति । आङ् उपसर्गत्वादाद्युदात्तः । गच्छेति निहतम् । भोःशब्दो निपात आधुदात्तः । माणवकेत्यस्यामन्त्रितनिघातः । अत्राऽन्त्यस्य पक्षे प्लुतोदात्तत्वमपि भवति, वचनसामर्थ्यात् । तदा चोभयोः समुचितयोर्दूरात्संबोधनं द्योत्यम् । यज्ञकर्मण्यजप । रूढश्व जपशब्दः करणमन्त्रेषु, यत्र 'जपतीति कल्पसूत्रकृतो व्यवहारः । न्यूजा नाम षोडश ओंकाराः । साम प्रसिद्धम् । गीतिषु सामाख्येति । यज्ञकर्म च यजतिनोदनानोदितं कर्म । जपादिपयुदासान्मन्त्रेष्वेवैषा एकश्रुति!हितादिषु, तेषाममन्त्रत्वात् । तत्र संपूर्णो य ऊाहेतस्तस्यैवाऽतत्त्वम्, यत्किचिदूहितपदघटिते तु मन्त्रत्वमेव, तन्मध्यपति तन्यायात् । तदाह मन्त्रे इति । ममाग्ने इति। यद्यप्ययं मन्त्रो हविरभिमर्शने वि नेयुक्तस्तत्र चैकश्रुयेनेत पठयते तथापि 'अधिश्रिते उन्नीयमाने वा 'ममाग्ने वर्ची विहवेष्वस्त्विति चतस्रो जपित्वा' इत्यग्निहोत्रप्रकरणे आपस्तम्बसूत्रे उक्तत्वेन न दोषः । एषु यथाविहितं त्रैस्वयं भवति । न चैतेषु नित्यैक