SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४६८ ] सिद्धान्तकौमुदी । [ साधारणस्वर 9 ४-६७ ) उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । । प्र य या रुः । वोश्वाः क्व भीश॑वः । ३६६२ एकश्रुति दूरात्संबुद्धौ । (१-२-३३ ) दूरासंबोधने वाक्यमेकश्रुति स्यात् । स्वयपवादः । आगच्छ भो माणवक । ३६६३ यज्ञकर्मण्यजपन्यूङ्खसामसु । ( १-२-३४ ) 主 रितौ उदयौ यस्मादिति बहुव्रीहिः । उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः । लाघवार्थं परशब्दे प्रयोक्तव्ये मङ्गलार्थमुदयशब्दः प्रयुक्तः । तथा चोकं भाष्ये 'मङ्गलादीनि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च' । इहादौ वृद्धिशब्दो, मध्ये शिवशब्दः 'शिवशमरिष्टस्य करे' इति, अन्ते चायमुदयशब्द इति पाणिनीये मङ्गलं कृतम् । प्र य आरुरिति । ये इति यच्छन्दस्य प्रथमाबहुवचनं फिट्स्वरेणान्तोदात्तम् । श्ररुरिति । अतैर्लिटि प्रथमपुरुषबहुवचनं मिः । तस्य 'परस्मैपदानाम् -' इत्युस् प्रत्ययस्वरेणोदात्तः । न च ' तिङ्ङतिङ : ' इति निघातः शङ्कयः । 'यवृत्तान्नित्यम्' इति निषेधात् । आकारस्य 'उदात्तस्वरितपरस्य' इति वक्ष्यमाणेन सन्नतरादेशः । वोऽश्वाः क्केति । अत्रापि श्वेत्याकारस्य सन्नतरः । क्केति । 'किमोत्', 'तित्स्वरितम्' । एकश्रुति । संबोधनं संबुद्धिरित्यनेनान्वर्थस्य संबुद्धिशब्दस्य ग्रहणम्, न 'एकवचनं संबुद्धि:' इति पारिभाषिकस्य । सति तु ग्रहणे आगच्छत देवब्राह्मणा इत्यत्र न स्यात्तदाह दूरात्संबोधने इति । श्रन्वर्थप्रहणं च दूरादित्यनेन संबन्धाल्लभ्यते । न ह्यामन्त्रितविभक्तेः दूरत्वमदूरत्वं च संभवति । संबोधनस्य तु क्रियारूपत्वादपादानत्वाद् दूरादिति विशेषण संभवः, दूरत्वं न देशस्वरूपमा श्रीयते अनवस्थितत्वात् किं तर्हि संबोधनक्रियापेक्षया दूरत्वं यावति देशे प्रकृतिप्रयत्नोच्चारितं संबोध्यमानेन न श्रूयते किं त्वधिकं प्रयत्नमपेक्षते तत्संबुद्धौ दूरं भवति । एकश्रुतिरिति । उदात्तादीनां स्वराणामविभागेनावस्थानमेकश्रुतिः । श्रागच्छेत्यादि । । 'दूरादधूते च' इति 'वाक्यस्य टः प्लुत उदात्तः' । प्रत्युदाहरणे प्रयुक्तः । यद्यपि नद्वयन्त्यक्त्वा 'गार्ग्यादीनामेवे 'ति नियमो व्याख्यातुं शक्यते तथापि 'गार्ग्यादीनामुदात्तादिपरमेवे 'ति विपरीतनियमशङ्कां वारयितुं नञ्द्रयोपादानम् । प्रय श्ररुरिति । ये इत्युदात्तम् । श्ररुरिति ऋधातोर्लिटयसि रूपम् - अन्तोदात्तम् । वोश्वाः काभीषव इति । श्रश्वशब्द श्रायुदात्तः । क्केति स्वरितम् । एकश्रुति । संबुद्धिप्रहणं संबोधनोपलक्षणम् । अन्यथा 'आगच्छत भो माणवकाः' इत्यादौ न स्यात् । तदाह दूरात्संबोधने इति । स्वराणामविभागेनाऽवस्थानमेकश्रुतिः । यद्वोदात्तादिभ्यो भिन्नः स्वर एक श्रुतिः । श्रये उच्चनीचसमुदितं स्थानम्, परंतु भेदेनाऽनुपलब्धिरिति स्वरिताद्भेदः । अन्त्ये तु तयोर्मध्यमेकश्रुतेः स्थानम् । आग
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy