________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता [४६७ ३६६० उदासादनुदात्तस्य स्वरितः। (८-४-६६ ।) उदासात्परस्यानुदात्तस्य स्वरितः स्यात् । भाग्निमीळे । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशा. नासः । ३६६१ नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् । (८दीर्घ । हस्वयोर्यत्र सवर्णदीर्घः स प्रश्लेष इत्युच्यते। उदात्तस्वरितस्थाने यो यण स औषः सन्धिः। यत्र 'एङः पदान्तात्-' इति स अभिनिहतसन्धिरुच्यते । तेषु स्वरितः स्वीक्रियत इत्यर्थः । वीदं ज्योतिः', 'अभ्यभि हि', 'तेऽवदन्' इति क्रमेणोदाहर. णानि । उदात्तादनुदात्तस्य । यत्र 'तयोर्वावचि' इत्यतः संहितायामित्यनुवर्तते तेन पदकालेऽनुदात्तमेव । अग्निमीळे इति । अग्निशब्दः फिटस्वरेण प्रत्ययस्वरेण वान्तोदात्तः। श्रम् सुप्त्वादनुदात्तः । 'अमि पूर्वः' इति एकादेश उदात्तः। ईळे इति तु 'इंड स्तुतौ' लटि उत्तमपुरुषैकवचनम् । 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो लकारः' इति वक्ष्यमाणेन प्रातिशाख्येन डस्य लः। 'तिङतिङः इति निहतम् । ईकारस्य स्वरितः। न च मकारण व्यवधानम् । 'स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषणात् । एवं सर्वत्र ज्ञेयम् । ननु 'तित्स्वरितम्' इत्यस्यानन्तरमिदं वक्तव्यम् । एवं स्वरितग्रहणं न कर्तव्यं भवतीत्याशङ्कयाह अस्येति । यदि तत्र क्रियत 'अनुदात्तं पदमेकवर्जम् इत्येतत्प्रवर्तेत, इह प्रकरणे न प्रवर्तते स्वरितस्यासिद्धत्वात् । तेन द्वयोप्युदात्तस्वरितयोः श्रवणं सिद्धम् । तमीशानास इति । तमिति तच्छब्दस्य द्वितीयैकवचनमन्तोदात्तम् । ईशानशब्दाज्जसि 'आज्जसेरसु' इत्यसुगागमे कृते रूपम् । 'ईश ऐश्वर्ये' अस्माच्छानच् । चित्त्वादन्तोदात्तः। जसः सुप्त्वादनुदात्तत्वम् । ईकारस्य सकाराकारस्य च स्वरितत्वम् । नोदात्त । उदात्तस्व. इति। ह्रस्वयोरिकार योः प्रश्लेषे, क्षेप्रसन्धिषु चाऽभिनिहितसन्धिषु चाऽविशेषण उदात्तपूर्वरूपेषु अनुदात्तोत्तररूपेषु शाकल्यस्य मते स्वरितः कार्यः । 'उदात्तपूर्वरूपेषु शाकल्यस्यैवमाचरे' दिति तद्वाक्यशेषात् । 'एव'मिति स्वरितनिर्देशः । 'सचीव घृते' 'यो जान्विन्द्र ते हरी' 'तेऽवर्द्धन्त स्वतवस' इति क्रमेणोदाहरणानीति तद्भाष्यकृतः । 'सन्धिविशेषस्य क्षति सम्ज्ञा, तद्विशेषस्याभिनिहिते'ति प्रातिशाख्ये द्वितीयपटले स्पष्टम् । तत्र हि-'एकः पदान्तादित्यादिरभिनिहितसन्धिः, ह्रस्वद्वयस्थानिकसवर्णदीर्घगुणवृद्धधादिः प्रश्लिष्टसन्धिः' दीर्घद्वयस्थानिकसवर्णदीर्घयणादिः प्रसन्धिः' इत्युक्तम् । वस्तुतस्तु वेदे पापाद्यमानरूपाऽभावाद्यवस्थितविभाषाश्रयणे फलं चिन्त्यम। उदात्सादनुदात्तस्य । अत्र 'तयोविची'स्यतः संहितायामित्यनुवर्तते । तेन पदकाले न । नोदात्तस्वरितोदय । उदयशब्दः परवाची शास्त्रान्ते मालार्थ