________________
४६६ ]
सिद्धान्तकौमुदी। [साधारणस्वरलोको दिवीयते । व्यवस्थितविभाषास्वादिकारयोः स्वरितः । दीर्घप्रवेशे तदात्तः। किंच ‘एकः पदान्तात्' (८६) इति पूर्वरूपे स्वरित एव । तेऽवदन् । सो उ यमागात् । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे प्राभिनिहतेषु चेति ।
दायुदात्तः । इदंशब्दः फिट्स्वरेणान्तोदात्तः । तयोरेकादेशः स्वरितः । दिविशब्दे उडिदंपदात्' इति विभक्तिरुदात्ता । इयते 'ईङ् गतौ' दिवादिः । 'तिङतिङ.' इति निहतम् । अत्रैकादेश उदात्तः । इकारयोः स्वरित इति । ह्रस्वकारयोरेवेत्यर्थः । दीर्घप्रवेश त्विति । दिवीयत इत्यत्र । उदात्त इति । एकादेश उदात्त' इत्यनेन । इयं च बचानां व्यवस्थोक्ता अन्येषामपि तदीयप्रातिशाख्यानुसारेण ज्ञया । पूर्वरूपे इति । तेऽवदन्नित्यादौ ते इति तच्छब्दः फिट्स्वरेणान्तोदात्तः जसः सुप्त्वात् 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तः । तयोरेकादेश उदात्तः। अवदन्निति । वदेर्लछि प्रथमपुरुषबहुवचनम् । ते इत्यतिङन्तात्परस्य तस्य 'तिङतिङः' इति निघातः । सोऽयमिति । स इति तच्छब्दस्य प्रथमैकवचनम् । तच्छब्दः फिटस्वरेणान्तोदात्तः । सुइति। 'सुप्त्वादनुदात्तः' तस्य रुत्वे उत्वे गुणे च कृते एकादेशेनौकार उदात्तः। अयमितीदमः प्रथमैकवचनं फिटस्वरेणान्तोदात्तम् । तयोः 'एङः पदान्ता-' इति पूर्वरूप ओकारः स्वरितः । इकारयोश्च प्रश्लेष इति । ह्रस्वयोरिकारयोः सवर्णऽनुदात्तोदये सन्ध्यमक्षरं स्वरितत्वमापद्यते 'क्षीरं सर्पिमधूदक'मित्युदाहरणम् । शौनकीयप्रातिशाख्येऽपि स्वराष्टकमुपक्रम्य 'एकादिष्टमुदात्तेन तं तमेव नयेत्स्वर'मिति । उदात्तनकादिष्टं तं स्वर तमेव उदात्तमेव, नयेत् उदात्तत्वमेव प्रापये दिति तदर्थ इति तद्भाष्ययोः स्पष्टम् । लोके तु कावरमित्यादौ न भवत्येवोदात्त इति युक्तमाभाति । अयमेकादेशस्वरोऽन्तरणस्पादिकोऽपि सिद्धो वाच्य इति 'स्वरितो वा' इति सूत्रे भाष्ये स्पष्टम् । अत एव 'शतुरनुम' इत्यत्राऽनुम इति प्रतिषेधश्चरितार्थः । अन्तरस इत्युक्तेः 'प्रपचतीति'इत्यादौ एकादेशस्य पूर्वान्तत्वात् 'तिङि चोदात्तवतीति न प्रवर्तते। 'सोमस्तुत् पचतीति' इत्यादौ 'तिङतिङ' इति निघातो न । सिद्धत्वफलन्तु 'वृत्तयिद' 'वृक्षावत्र' इत्यत्राऽयावावुदात्तौ भवतः । एतद्विषये शेषनिघातश्च । फलान्तराण्यपि भाष्ये स्पष्टानि । वीदमिति । विः-निपातत्वादाशुदात्तः । इदम्शब्दः फिटस्वरेणा. ऽन्तोदात्तः । दिवीयत इति । दिवीति विभक्तिः-'ऊडिदंपदादी'त्युदात्ता, ईको दिवादेः 'ईयते' इति 'तिङतिकः' इति निहतम् । इकारयोरित । हस्कारयोरित्यर्थः । कि चेति । इदं वेद एव । अत एव 'गाङ्गेऽनूपे' इत्यत्रायमेकादेशः स्वरितो वेति भाष्ये उक्तम् । त इति । तच्छब्दस्य बहुवचनम् । इकारयोश्च प्रश्लेषे