________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४६५ तेन सहैकादेश उदात्तः स्यात् । के 'वोऽश्वाः । कावरं मरुतः । ३६५६ स्व. रितो वानुदात्ते पदादी। (८-२-६) अनुदात्ते पदादौ परे उदात्तेन सहै. कादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः। वीदं ज्योतिहृदये । अस्य
दानत्वे स्वरितत्वे वा श्रा-तरतम्यात् स्वरित प्राप्ते विधिरयमिति ध्वनयन्नुदाहरणद्वयमाह क वोऽश्वा इत्यादि। 'बहुवचनस्य वस्नसौ' इत्यत्र 'अनुदात्तं सर्वम. पादादौ' इत्यधिकाराद्वस् धनुदात्तः । अशेः क्वनिति व्युत्पादनादश्वशब्द आधुदात्तः । वसो रुत्वम् । उत्वम् । 'एङः पदान्तादति' इति पूर्वरूपम् । क्वेति । 'किमोत्' 'क्वाति' इति किमः क्वादेश: 'तित्स्वरितम्' । अवरशब्दः 'स्वाङ्गशिटामदन्तानाम्' इत्याद्युदात्तः । तयोर्दीघ उदात्तः । स्वरितो। वीदमित्यादि । विशब्दो निपात'उदात्तादनुदात्तस्ये ति स्व ितत्वम्, तत्र सन्तीति प्रत्ययस्वरेणायुदात्तम् । ते शेषनिघातः, अग्ने इत्यामन्त्रितानुदात्तमिति वाच्यम् , सशब्दाऽकारमाश्रित्योदोत्तादनुदात्तस्येत्येवाऽग्निशब्दाऽकारस्य त्वरितसिद्धेः । न च स्थानिवद्भावादचा व्यवधानम् , पूर्वत्रासिद्धीये तन्निषेधात् । एतेन 'द्वितीयपक्षोऽयुक्तः स्थानिवद्भावेनाऽचा व्यवधानात् , व्यञ्जनस्य ह्यविद्यमानवत्त्वं न त्वचः' इति वृत्त्युक्रमपास्तम् । 'स्वरे कर्तव्ये लोपाऽजादेश एव न स्थानिव'दिति नियमस्तु, 'स्वरविधौ नेति प्रतिपदोक्तस्यैव निषेधस्य, न तु पूर्वत्राऽसिद्धीयत्वप्रयुक्तस्येत्यन्यः विस्तरः। एकादेश उ । उदात्तयोरेव स्थानित्वे आन्तरतम्यादेव सिद्धम् । अन्य तरस्याऽनुदात्तत्वे, स्वरितत्वे वा 'सिद्धन्तूभयान्तर्यादिति न्यायेनान्तरतम्यादेव स्वरित प्राप्ते विधिरयम् । तद्धवनयन्नुदाहरणद्वयमाह वोडश्वा इति । व इत्यनुदानम् । अश्वशब्दः कनन्तत्वादायुदात्तः । वसः सस्य रुः, तस्य उः, सोऽस्वरकः, स्रसनधनहल्स्थानिकत्वात् , अनुदात्तो वा, उभयथापि तदेकादेशोऽनुदात्तः प्राप्तः । केति स्वरितम् । अवरशब्दः 'स्वाङ्गशिटा'मित्याद्यदात्तः एवञ्च यवृत्तौ-पूर्वसूत्रादनुदात्त येत्यत्रानुवयं उादत्तानुदात्तयोरेकादेश इति व्याख्यातम. तच्चिन्त्यम् , क्वावरमिया पद्धयापत्तेः । तत्र हि वह्वचानामुदात्तपाठो निर्विवाद इत्याहुः । वस्तुतस्तु 'तस्यादित' इति सूत्रस्थभाष्यादितोऽप्यनुवृत्तिरेव लभ्यते इति सैव युक्ता । तत्र हि सुब्रह्मण्याशब्देव स्वरितान्तेन ओमित्युदात्तस्यकादेशः स्वरितः, तस्य 'न मुब्रह्मण्याया'मित्यनेनोदात्त इत्युक्तम् । क्वावरमिति तु छान्दसत्वाद्बोध्यम् । तथा च बबचप्रातिशाख्यम्-'उदात्तवत्येकीभावे उदात्तं सन्ध्यक्षरम् । अनुदात्तोदये पुनः स्वरितं स्वरितोपधे' इति । 'यस्मिन्ने की भावे पूर्वमुत्तरं वोदात्तं भवति, इतरस्तूदात्तानुदात्त. स्वरितप्रचितानामन्यतमस्तस्मिन्नेकीभावे सन्ध्यमक्षरमुदात्तं ज्ञातव्यम् । स्वरितोपधे.