SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४६४ 1 सिद्धान्तकौमुदी। [साधारणस्वरच्छेषनिघातो न । ३६५८ एकादेश उदात्तेनोदात्तः। (८-२-५) उदा. आशाशब्दप्रथमाकारस्थानिकस्येत्यर्थः । शेषेति । आशाशब्दस्य निघातो नेत्यर्थः । ननु यणादेशं प्रति स्वरितस्यासिद्धत्वात्स्थानिन्येक यण प्रवृत्तः यथा औजढदित्यत्र हतशब्दे द्वित्वं प्रवर्तते न तु ढशब्दे । न च खरितयणः परस्येत्याश्रयणात्सिद्धत्वं शक्यम् । तथा सति 'उदात्तादनुदात्तस्य खरितः' इत्यनेन यत्र स्वरितः क्रियते तत्रापि ह्यसिद्धत्वं न स्यात् । न चेष्टापत्तिः लक्ष्यविरोधात् । 'प्रत्यग्निरुषसामग्रमख्यत्' इत्यादौ स्वरितादर्शनात् । न च नोदात्तस्वरितोदयमिति निषेधः शङ्कयः । 'अनन्तरस्य-' इति न्यायेन 'उदात्तादनुदात्तस्य' इति यत्र प्राप्तिस्तन्मात्रस्य निषेधात् । अन्यथा खलप्व्याशान्या अग्नि या अस्मानित्यादावपि निषेधापत्तिरिति चेत् । अत्राहुर्भाग्यकार:-'योगविभागः करिष्यते उदात्तयणः परस्यानुदात्तस्य स्वरितो भवति । ततः स्वरितयणः, उदात्तयण इत्यनुवर्तते, उदात्तयण इत्येवं योऽभिनित्तः स्वरित. स्तयणः परस्यानुदात्तस्य स्वरितः स्यादित्यर्थः । एवं चास्यैवाश्रयात्सिद्धत्वं नान्यस्य । एकादेश इति । उदात्तयोरेव स्थानित्वे आन्तरतम्यादेव सिद्धम् । अन्यतरस्यानुऽन्तोदात्तः । अस्येति । आशाशब्दप्रथमाकारे जातस्येत्यर्थः। शेषेति । 'शा'शब्दाकारस्य निघातो नेत्यर्थः। नन्विकारस्थानिकयणं प्रति स्वरितस्याऽसिद्धत्वा. स्थानिन्येन या प्रवृत्त इति नाऽस्य स्वरितयणः परत्वम् । न च प्रगृह्यसञ्ज्ञासूत्रस्थभाष्यकैयटरीत्या 'श्रौजढ'दित्यादावन्तरगत्वाइत्वादिषु कृतेषु ह्तशब्दबुद्धघा ढशब्दे द्वित्वं प्रवर्तते इति प्रतीयते तथाऽत्र स्वरितबुद्धयभावेऽपि वस्तुतः स्वरितस्थानिकयणः सत्त्वाददोष इति वाच्यम् , वाक्यसंस्कारपक्षे स्वरितयणोरेककालप्रवृत्तिकत्वन तथा वक्तुमशक्यत्वात् । न च 'स्वरितयण' इत्याश्रयात्सिद्धत्वम् , अतिप्रसङ्गात् । 'उदात्तादनुदात्तस्येति विहितस्यापि सिद्धत्वापत्तेः । तथा च प्रत्यग्निरित्यादावपि एतत्प्रवृत्त्यापत्तिः। न च 'नोदात्तस्वरितोदय'मिति निषेधः, 'अनन्तरस्येति न्यायेन 'उदात्तादनुदात्तस्येति स्वरितस्यैव तेन निषेधात् । अन्यथा 'खलप्व्याशाऽन्याऽमि'मित्या. दावप्यस्य निषेधापत्तिः । अत एव 'तित्स्वरितं' 'स्वरितो वाऽनुदात्ते' इत्यादीनां न निषेध इति चेन्न। योगविभागेन भाष्ये एव समाधानात् । 'उदात्तयणः' । उक्तोऽर्थः । ततः 'स्वरितयण' । इह पूर्वसूत्रमनुवर्तते । उदात्तयण इत्येवंनिर्वृत्त. स्वरितस्थानिकयणः परस्येत्यर्थः । एवञ्चास्यैवाश्रयात्सिद्धत्वम् , नान्यस्येति न दोषः । यद्वा इह स्वरितग्रहणं न करिष्यते, 'खलप्व्याशे'त्यादावप्युदात्तयणः परत्वादेव सिद्धम् न च स्वरितयणा व्यवधानम् , स्वरविधौ व्यञ्जनस्याऽविद्यमानवत्त्वात् । न चैव सन्त्याने' इत्यादौ वेदे 'सकाराऽकारे पठयमानस्वरिताऽसङ्गतिः, तत्र हि सन्तीति इकारस्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy