________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४६३ वञ्चेति वक्तव्यम् । पाते पितमरुताम् । प्रति स्वा दुहितर्दिवः । ॐ अव्ययानां च । उच्चैरधीयान । * अव्ययीभावस्य त्विष्यते । उपाग्न्यधीयान । ३६५७ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। (८-२-४) उदा. त्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यमि हि । स्वरितस्थ यणः । खलढ्याशा । अस्य स्वरितस्य पादिकत्वेनासिद्धत्वा. तस्यास्तदपेक्षास्तीति तत्कारकमित्यर्थः । पितमरुतामिति । अत्र मरुतामिति परं पदं पूर्वस्य पितरित्यस्याङ्गवद्भवति । पितरित्यामन्त्रितनिघातेनानुदात्त ततः परं मरुतामित्येतदप्यनुदात्तमेव भवतीत्यर्थः । अव्ययानां नेति । तेनोच्चैरधीया. नेत्यत्र 'आमन्त्रितस्य च' इत्याद्यदात्तत्वं न । न च निषेधवयर्थम् । 'निपाता आद्यदात्ताः' इत्यायुदात्तत्वस्यानिवारणादिति वाच्यम् । स्वरादिष्वन्तोदात्तयोरुच्चीचैःशब्दयोः पाठात् । अव्ययीभावस्य विति । 'अव्ययीभावश्च' इति अव्ययीमावस्याव्ययसंज्ञा सूत्रे लुमखस्वरोपचारा इति गणनादन्यत्राव्ययसंज्ञाभावेन 'अव्ययानां न' इति निषेधो न प्रवर्तते इति भावः। उपान्यधीयानेति । पराङ्गवद्भावेनामन्त्रितस्येत्याद्यदात्तत्वम् । अभ्यभीति । अभिशब्द 'उपसर्गाश्चाभिवर्जम्' इत्याद्यदात्तनिषेधात् फिट्स्वरणान्तोदात्तः । तस्य 'नित्यवीप्सयोः' इति द्वित्वम् 'तस्य परमानेडितम्' 'अनुदात्तं च' इति परस्यानुदात्तत्वं तस्मिन्नेव परे इकारस्योदात्तस्य यणि कृते उदात्तयणः परत्वाद्यकारात्वरितः। खलपूशब्दः कृदुत्तरपदप्रकृतिवरेणान्तोदात्तः । तस्य 'श्रोः सुपि' इति यण् । स उदात्तयण । ततः परो डिप्रत्ययः सुप्त्वादनुदात्तः ।। तस्यानेन स्वरितः । 'उदात्तयणो हलपूर्वात्' इत्युदात्तत्वं तु न । 'नोधात्वोः' इति निषेधात् । तस्य च स्वरितकारस्य यणि ततः परस्य शाशब्दाकारस्यानेनैव स्वरितः। श्राशाशब्दो हि 'आशाया अदिगाख्या चेत्' इत्यन्तोदात्तत्वादनुदात्तादिः । अस्येति कुण्डेनाटन्नित्यादौ 'श्राम एकान्तर'भिति 'अट'न्नित्यस्य निघाताऽभावे कुण्डेनेत्यस्यापि न भवति । पूर्वाङ्गवदिति । सुबन्तमामन्त्रिते पूर्वस्मिन् पूर्वाऽवदित्यर्थः । छन्दोविषयमेतत् । उदात्तस्थाने इति । इदमत्रैवाकरे स्पष्टम् । अभ्यभीति । अभिः 'उपसर्गाश्चाऽभिवर्ज'मित्यन्तोदात्तः । 'नित्यवीप्सयो'रिति द्वित्वम् । 'अनुदात्तं चेति परोऽनुदात्तः पूर्वस्य यणि उदात्तयणः परत्वात्स्वरितः । 'खलपू' । शब्दः कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तःः । ततः सप्तम्येकवचनस्य 'उदात्तयणो हल्पूर्वा'दिति प्राप्तोदात्तस्य 'नोड्धात्वोरिति निषेधेन स्वरितः । तस्य यणि ततः पराऽऽशाशब्दायाकारस्यानेन स्वरितः। श्राशाशब्द 'आशाया अदिगाख्या चेदिति फिटसूत्रेणा