________________
४६२ ]
सिद्धान्तकौमुदी। [साधारणस्वरवत्स्वरे । (२-१-२) सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवपाणी शुभस्पती । शुभ इति शुभेः विवन्तारषष्ठयन्तस्य, परशरीरानुप्रवेशे पाठिकमामन्त्रिताधुदात्तस्वम् । न चाष्टमिको निघातः शङ्कयः । पूर्वामन्त्रितस्या. विद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मत भोजनम् । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् । * षष्ठयामन्त्रितकारकवचनम् । षष्ठयन्तमामन्त्रितान्तं प्रति यस्कारकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनेह न । अयममे जरिता । एतेनाने ब्रह्मणा । समर्थानुवृत्त्या वा सिद्धम् । * पूर्वाङ्गशरण्यशब्दस्य चेत्यर्थः । सुबामन्त्रिते। परस्याङ्गवदिति । तस्यैव परस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति । तद्ग्रहणेन गृह्यत इत्यर्थः । षष्ठयामन्त्रित । अत्र षष्ठीशब्देन षयर्था विभक्तिरुच्यते । तेन गोषु स्वामिन्नित्यत्रापि परामवद्भावः सिध्यति । परशुना वृश्चन्निति । आपरयोः 'खनिशभ्यो डिच्च' इति कुप्रत्ययान्तोऽन्तोदात्तः । षष्ठयन्तमामन्त्रितान्तं प्रति यत्कारकमिति । यद्यप्यामन्त्रितस्य द्रव्यवचनत्वान्न कारकापेक्षा तथापि आमन्त्रिततया धातुवाच्या या क्रिया मानवत् । तेन षडित्यस्य निघातो वैकल्पिकः । षष्ठयन्तमिति । अत्र षष्ठीशब्देन तदर्था विभक्तिरुच्यते । तेन 'गोषु स्वामि'न्नित्यत्रापि पराङ्गत्वं सिद्धमित्याहुः । आमन्त्रितान्तं प्रतीति । आमन्त्रितार्थकदेशकियां प्रतीत्यर्थः । 'मद्राणां राजन्' 'सूच्या सीव्यन्' इत्युदाहरणे । अत्र विशिष्टस्यामन्त्रितायुदात्तत्वम् । अत्रेदं बोद्धथं-षष्ठपन्तस्य कारकस्य च समानाधिकरणं यद्विशेषणं तस्यापि पराङ्गवत्त्वमिष्यते । तेन 'ऋद्धस्य राज्ञः पुरुषः' 'तीक्ष्णया सूच्या सीव्यन्नित्यादौ पदत्रयस्यैकमायुदात्तत्वं भवति । समर्थानुवृत्या वेति । सामर्थ्यचाऽत्र व्यपेक्षैव, शब्दाधिकारात् । सा च 'वस्त्रं राज्ञः, पुरुषागच्छे'त्यादौ परागवत्त्ववारणाय तवाप्यावश्यकीति भावः । वस्तुतस्तनिमित्तग्रहणकार्यम् । आमन्त्रितार्थ प्रति यन्निमित्तं, तत्प्रतिपादकं यत्तदेव पराजवदित्यर्थः । अत एव गोषु स्वामिनित्यादेः परामवत्त्वसिद्धिः। समर्थग्रहणानुवृत्तिस्तु भाष्याऽसंमतेति निरूपितं मञ्जूषायां समासवादे । 'स्वरे'इत्युक्तेः 'कूपे सिञ्च'नित्यादौ षत्वादिकं न । न च पूर्वस्य पराङ्गवत्त्वेन पूर्वस्मिन् परप्रयुक्तकार्यप्रवृत्तिःस्वनिष्ठस्वाश्रयनिवृत्तिश्चास्तु, परस्मिस्तु पूर्वनिष्ठकार्यप्रवृत्तौ तन्निष्ठस्वाश्रयनिवृत्तौ च मानाऽभावात्पदादित्वेन न षत्वप्राप्तिः, तथा 'चर्मनम'नित्यादावखण्डपदत्वाऽभावेन णत्वप्राप्तिश्च नेति स्वरग्रहणं व्यर्थमिति वाच्यम्,भाष्ये प्रत्याख्यातत्वेनेष्टापत्तेः । [परग्रहणं स्पष्टार्थम] । अङ्गग्रहणमुभयोरायुदात्तत्वाऽभावाय । [वत्करणात्स्वाश्रयमपि । तेनाऽऽम्
१-कोष्ठान्तर्गतः क्वाचित्कः पाठः।