________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४६१ पूर्वमविद्यमानवत्' ( ४१२ ) । अग्न इन्द्र । अनेन्द्रादीनां निघातो न। पूर्व स्याविद्यमानत्वेन पदास्परस्वाभावात् । 'नामन्त्रिते समानाधिकरणे सामान्यवचनम्' ( ४१३ । सामानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमान वन्न । अग्ने तेजस्टिन् । अग्ने त्रातः। सामान्यवचनं किम् - पर्यायेषु मा भूत् । अध्न्ये देवि सरस्वति । ३६५५ ( सामान्यवचनं ) विभाषितं विशेषवचने (८-१-७४) अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा। देवीः षीहरु नः कृणोत । अत्र देवीनां विशेषणं षडिति । देवाः शरण्याः । इह हितीयस्य निघातो वैकल्पिकः । ३६५६ सुबामन्त्रिते पराङ्गमाश्रित्य गङ्गेप्रमृती त्रयाणामनुदात्तः। स च पदपाठे स्पष्ट एव । संहितायां तु 'खरितात्संहितायाम नुदात्तानाम्' इति वक्ष्यमाणा प्रचयापरपर्याया एकश्रुतिः प्रवर्तते । शुतुद्रीति । पाठे। 'अामन्त्रितस्य च' इत्यनेनायुदात्तः। आमन्त्रितं पूर्वम् । अग्न इन्द्रेति । सर्वाणि षाष्ठेनाद्युदात्तानि । निघातो नेति । श्राष्टमिकेनेति भावः । नामन्त्रिते । अत्रोत्तरसूत्रस्थं सामान्यवचनमत्र संबन्धनीयमिति भाष्यम् । तद्याचष्टे विशेष्य मिति । विशेष्यसमकमि यर्थः। कचित्तु 'नामन्त्रिते समानाधिकरणे सामान्यव उनम्' इति पाठः स वृत्त्यनुरोधेनेति ज्ञेयम् । अग्ने तेजस्वि. नित्यादि । अग्ने इत्यस्य विद्यमानत्वात्तेजस्खिनित्यस्य त्रातरित्यस्य चाष्टमिकनिघातः । अन्ये देवि सरस्वतीति । तैत्तिरीयके ब्राह्मणे सहस्रमी प्रकृत्य 'इडे. रन्ते दिते सरस्वति प्रिये प्रेयसि महि विश्रुति एतानि ते अधिनये नामानि' । वृत्ती तु 'इडे काल्ये विहव्ये' इति पाठः । स तु शाखान्तरे द्रष्टव्यः । समानाधिकरण. ग्रहणं पाणिनिमते न इन्द्र वरुण इत्यादौ व्यधिकरणनित्त्यर्थम् । भाष्यकृन्मते विस्पष्टार्थ सामान्यवचनापेक्षत्वात्तत्र सामानाधिकरण्यस्यावश्यं स्थितत्वात् । सामान्य । बहुवचनमिति पूर्वनिषेधस्यास्य विकल्पस्य च विषय विभागार्थम् । देवीः षडिति । अत्र देवीरित्यामन्त्रितं नाविद्यमानवत् । तेन षडित्यस्य निघातः । शरण्या इति । शरणं रक्षितृत्वं स्त्र साधवः शरण्याः । इति यत् । द्वितीयस्येति । षष्शब्दस्य निघातः । स च पदपाठे स्पष्ट एव। संहितायान्तु 'स्वरितात्संहिताया'मित्येकश्रुति प्रचयाऽपरपर्याया प्रवर्तते । अग्ने त्रातरिति । अग्निरिह विशेष्यम् । त्राणकर्त्तरिति विशेषणम्। 'अरे भ्रातः सहस्कृते'ति मचे छान्दसत्वाद् भ्रातरित्यस्याऽविघातः । एवं तत उत्तरेषामपि बोद्धयम् । देवीः षडिति । अत्र देवीरित्यामन्त्रितं वाऽविद्य.