________________
४६० ] सिद्धान्तकौमुदी। [साधारणस्वरइति वाच्यम् । दाधीचः । माधूचः । प्रत्ययस्वर एवात्र । ३६५३ 'आमन्त्रितस्य च । (६-१-१९८) आमन्त्रितस्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः । ३६५४ आमन्त्रितस्य च । (८-१-१६) पदापरस्यापादा. दिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुवषाष्ठस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति । अपादादौ किम्-शुतुद्रि स्तोमम् । 'श्रामन्त्रितं प्राप्तस्तस्यायमपवाद इत्यर्थः । देवदीचीमिति। देव अच् इति स्थिते 'विष्वग्देवयोः-' इति देवशब्दस्याद्रि आदेशः । 'उगितश्च' इति लोप 'अवः' इत्यञ्चतेरकारलोपः । 'चौ' इति दीर्घत्वम् । द्रौतीकार उदात्तः। ततः परस्य 'उदात्तादनुदात्तस्य खरितः' इति खरितत्वम् । अतद्धित इति । चौ यः खरः स तद्धिते परतो न भवतीत्यर्थः । अन्यथा देवदीचीमित्यादौ यथोदात्तनिवृत्तिखरं बाधते तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सति शिष्टवरो बाधेत । तस्मादतद्धित इति वक्तव्यम् । अस्मिंश्च सति उदात्तनिवृत्तिखरस्यायमपवाद इति फलितम् । दाधीच इति । दधि अच् अण् इति स्थितेऽणस्वर उदात्तत्वे कृते 'अचः' इत्यकारलोपः । ततः सति शिष्टत्वात् 'चौ' इति खरः प्राप्तो निषिध्यते । तथा चण्प्रत्ययवरेणैव व्यवस्था । तदाह प्रत्ययस्वर एवात्रेति। अग्न इत्यादि। 'सामन्त्रितम्' इत्यनेनामन्त्रितत्वम् । प्रागुक्तषाष्ठस्येति । आमन्त्रितस्य चेत्यस्य । इमं म इति । मेशब्दात्परत्व. 'देव'डिति पाठेन टित्त्वान्टीप् । 'चौ'। उदात्तनिवृत्तीति । 'देवदीचो'मियादौ कृदुत्तरपदप्रकृतिस्वरेणोदात्तस्य अञ्च् इत्यकारस्य 'अचा' इति लोपे डीपः 'अनुदा. त्तस्य च' इति सूत्रेण प्राप्तस्येत्यर्थः। न च पराच इत्यादौ कृत्स्वरं बाधित्वा 'अनिगन्तोऽ. चतो' इति पूर्वपदप्रकृतिस्वरत्वेनाऽऽद्युदात्तत्वे 'अच' इत्यकारलोपे इदश्चरितार्थम् , न ह्यत्रोदात्तलोपोऽस्तीति वाच्यम् , 'अनिगन्तोऽन्नौ' इति विषये चुस्वराऽप्रवृत्तेर्वक्ष्य. माणत्वादित्याहुः। ननु 'दाधीच' इत्यादौ उदात्तेऽणि 'अचः' इति लोपे इदं चरितार्थमिति कथं तदपवादत्वमत आह अतद्धित इति । वस्तुतो 'न गोश्वन्' इतिसूत्रं यत्किचिल्लक्षण: प्राप्तविभक्तिस्वरस्य निषेधक'मिति अत्र सूत्रे, 'असिद्धवत्'सूत्रे 'विप्रतिषेध' सूत्रे च भाष्ये उक्तत्वेन दधीच इत्यादावुदात्तनिवृत्तिस्वराऽप्राप्तिविषयेऽस्य चरितार्थ्यान्नाऽस्य तदपवादत्वम् । परत्वेन तूतोदाहरणे तद्बाधकम् । दाधीच' इत्यादौ तु सतिशिष्टत्वेनैतत्प्राप्तौ 'अतद्धित' इत्यावश्यकमिति भाष्यारूढः पन्थाः । आमन्त्रितस्यादिरिति । 'आमन्त्रितविभक्त्यन्तस्येति पाठस्तु लेखकप्रमादात् । एकपदस्वरे लुकि प्रतिषिद्धमपि प्रत्ययलक्षणं 'सर्वामन्त्रितसिज्जुक्स्वरवर्ज'मितिवचनादिहेष्यत एव-प्रियवारि। इमं मे इति । अत्र गजेप्रमृतीनामविद्यमानवत्वेऽपि 'मे' शब्दमेवाश्रित्य सर्वेषामचर्चा