SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [४५६ यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् । अत्र लीबु. दात्तः । ३६५२ चौ (६-१-२२२) लुप्ताकारेऽवती परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवीची नयत देवयन्तः । * अतद्धित शिष्टम् 'अनुदात्तं पदमेकवर्जम्' इत्यनुदात्तं तत्कुत उदात्तलोप इति चेत्सत्यम् । मा हि धुक्षातामित्यत्र दुहेलुंडात्मनेपदमाता 'शल इगुपधा-' इति च्लेः क्सः आतामि. त्यस्य 'तास्यनुदात्तेन्ङिददुपदेशात्' इति लसार्वधातुकमनुदात्तत्वम्। क्सः प्रत्ययस्व. रेणोदात्तः 'क्यस्याचि' इत्यकारलोपः । अत्र 'कर्षात्वतो घोऽन्त उदात्तः' इत्यत अन्त इत्यधिकारादन्त्यस्योदात्तत्वं स्यात् सति त्वस्मिन्नादेर्भवति । ननु यत्रोदात्तलोप इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः । न हि तदुदात्तलोपस्य निमित्तमिति चेत्तर्हि आदे. रपि न प्राप्नोति । तस्याप्युदात्तलोपं प्रत्यनिमित्तत्वात् । 'क्सस्याचि' इत्यजादौ प्रत्यये विधानात् । तस्माद्यत्र प्रत्यय उदात्तलोपस्तत्संबन्धिनोऽनुदात्तस्योदात्तो भवतीति सूत्रार्थेनान्ताधिकारादन्त्यस्य प्रसङ्गः । यदि तु निमित्तत्वानादरेण यत्रानुदात्ते परत उदात्तलोपस्तस्योदात्तो भवतीति सूत्रार्थस्तदानुदात्तस्येति न वक्तव्यम् । अन्यस्य प्रसङ्गाभावात् । न च मा हि धुक्षातामित्यत्र 'तिङतिङः' इति निघातः स्यादिति वाच्यम् । 'हि च' इति निषेधात् । उदात्तनिवृत्तीति । कृदुत्तरपदप्रकृतिवरेणो. दात्तस्याश्चत्यकारस्य 'अच' इति लोपे सति 'अनुदात्तस्य च' इति सूत्रणोदात्तः अयोग्यत्वात् । तथा हि यत्रेत्यनेनात्रानुदात्तवर्णपरामर्शः। उदात्तत्वानुदात्तत्वयोर्वर्णधर्मत्वात् । अनुवृत्तौ वा व्यपदेशिवद्भावेनैव तत्त्वं बोद्धयम् । एवञ्च सप्तमीनिर्देशनानुदात्तवर्णस्य बुद्धया लोपात्परस्यैव ग्रहणाद् ‘युष्मभ्य'मित्यादावादेरुदात्तत्वसिद्धिः । न चैवमपि युष्मभ्यमित्यत्र सुप उदात्त लोपनिमित्तत्वेऽपि नावयवस्य तत्त्वमिति कथं 'यत्र' प्रहणेन वर्णग्रहणमिति वाच्यम् , उदात्तयोरुदात्तस्वरितयो(कत्र पदेऽभावेन तयोः परयोरुदात्तलोपाऽभावेन व्यर्थमनुदात्तस्येति अनुदात्तमात्रग्रहणार्थम् , अतो निमित्तभूतसमुदायप्रविष्टस्याऽपि प्रहणमिति न दोषः। तद्भावभावितामात्रेणापि निमित्तत्वव्यवहारात् । ननु ‘मा हि धुनाता'मित्यादौ एतत्प्रवृत्तिरिति भाष्यात्स्पष्टम् ,तदसङ्गतम् ,अत्र हि आताम् प्रत्ययस्वरेणोदात्तः। क्सोऽपि विकरणत्वादनुदात्तः। ततः अदुपदेशा'दिति स्वरं बाधित्वा परत्वात् 'क्सस्याऽचि' इति लोपे अनुदात्ते परे उदात्तलोपाऽभाव इति चेन्न, अन्तरगत्वाल्लावस्थायामेवोदात्ते से जातस्याऽऽतामोऽन्तरङ्गत्वाल्लसार्वधातुकानु. दात्तत्वे ततो लोपेनाऽदोषात् । पक्षान्तरेऽपि एतद्भाष्यप्रामाण्यन ज्ञापकसिद्धस्याऽ. सार्वत्रिकतया क्वचिदन्यत्र विकरणेभ्य इत्यंशाऽप्रवृत्तेरदोषात् । अत्रानुदात्तपदेनाऽविद्यमानोदात्तस्यैव ग्रहणमिति स्पष्टं 'डारौरसः' इत्यत्र भाष्ये । देवीमिति । पचादौ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy