________________
४५८] सिद्धान्तकौमुदी। [साधारणस्वरदाहरणे गुपेर्धातुस्वर पायस्य प्रत्ययस्वरश्च न शिष्यते। अन्यत्रेति किम्-यज्ञं .यज्ञमभिवृधे गृणीतः । अत्र सति शिष्टोऽपि भा इत्यस्य स्वरो न शिष्यते किं तु तस एव । ३६५१ अनुदात्तस्य च यत्रोदात्तलोपः। (६-१-१६१) अन्यत्रेति। सति शिष्टोऽपि विकरणखरः प्रत्ययखरं न बाधत इत्यर्थः । अत्र च ज्ञापक तासेः परस्य लसार्वधातुकस्यानुदात्तविधानन् । तथाहि यद्यपि लावस्थायां तासिर्विधीयते तथापि लकारमात्रापेक्षत्वादन्तरलेषु परेषु च लादेशेषु कृतेषु पश्चात्तासिरिति तत्स्वरस्य सति शिष्टत्वात् शेषनिघातेनैव सिद्धरनर्थकं तत्स्यात् । गृणीत इति । अन्तोदात्तं पदम् । अत्र 'तास्यनुदात्त-' इति लसार्वधातुकनिघातो न, अदुपदेशेति तपरकरणात् नाप्रत्ययस्यादन्तत्वाभावात् । 'तिड्ङतिङः' इति निघातस्तु न भवति 'यत्तान्नित्यम्' इति निषेधात् । स हि व्यवहितेऽपि प्रवर्तते । तस एवेति । तस 'श्राद्युदात्तश्च' इत्याद्युदात्तः खरः शिष्यत इत्यर्थः । अनुदात्तस्य । देशशब्दोऽच्प्रत्ययान्तत्वात् 'चितः' इत्यन्तोदात्तः पचादिषु देवडिति पाठात् 'टिड्ढा-' इति डीप तस्य 'अनुदात्तौ सुप्पित्ती' इत्यनुदात्तत्वे 'यस्येति च' इत्यकारलोपः। नन्वनुदात्तस्येति व्यर्थ न घायुदात्ते खरिते वा परे उदात्तलोपोऽस्ति । न च प्रसज्यत इति प्रासङ्गः कर्मणि घञ् 'कर्षात्वतो घोऽन्त उदात्तः' इत्यन्तोदात्तम् । 'उपसर्गस्य घज्यमनुष्ये बहुलम्' इत्युप. सर्गस्य दीर्घः 'तं वहति' इति प्राग्घिताद्यत् तित्त्वात्स्वरितः, तस्मिन् परे 'यस्य' इति लोपः । अत्र खरिते परे उदात्तलोपोऽस्त्येवेति वाच्यम् । खरिते हि विधीयमाने परि
स्वरप्रवृत्तौ पाशब्दोऽप्यनुदात्त इत्यादि बोध्यम् । अन्यत्रेति । अत्र च ज्ञापकं तासेः परस्य लसार्वधातुकस्य निघातविधानम् । अन्यथा परनिमित्तकत्वाऽभावेन तिवादीना. मन्तरगत्वेन तिबादिषु कृतेषु क्रियमाणस्य तासिस्वरस्य सतिशिष्टत्वाच्छेषनिघातेन सिद्धे तद्वैयर्थ्य स्पष्टमेव । यदि तु 'स्यतासी' इत्यत्रार्द्धधातुक इत्यनुवर्त्य लावस्थायामेव स्यादयस्तदेदं वाचनिकमिति बोध्यम् । अस्य च विशेषापेक्षत्वात् सार्वधातुकस्वरापेक्षयैव विकरणस्वरस्य दुर्बलत्वम् , धात्वादिस्वरापेक्षया तु प्राबल्यमेव । अत एव गृणातीत्यादौ न उदात्तत्वेन धातोनिघातसिद्धिः । इदमपि सार्वधातुकस्य श्रूयमाणत्वे एव । तेन 'चिनु' इत्यादौ न दोषः। गृणीत इति । अन्तोदात्तं पदम् । अत्र लसार्वधातुकनिघातो नास्ति, 'अदुपदेशे'ति तपरकरणात् । 'ना' इत्यस्याऽदन्तत्वाऽ. भावात् । 'तिङतिङ' इति तु न, ‘स होता यस्य रोदसी चिदुर्वी' इति पूर्वचरणे पद्वत्तस्य सत्त्वेन 'यद्वत्तानित्यमिति निषेधात् । तस्य च व्यवहितेऽपि प्रवर्तनादिति बोध्यम् । अनुदात्तस्य च यत्र । अत्र 'कर्षात्वत' इत्यतोऽन्त इति नानुवर्तते,