________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता ।
[ ४५७
( २३०४ ) इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् । * सति शिष्टस्वरपलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् । तेनोक्लो
तश्च' इति प्रत्ययस्वरेणायुदात्तः । ततः 'सनाद्यन्ताः -' इति धातुसंज्ञायां ' धातोः' इति यकाराकार उदात्तः । स च प्रागुक्कयोरुदात्तयोः सतोः पश्चात्प्रवृत्तत्वात्सति शिष्टः तो बलवान् । तस्य 'अनुदात्तौ सुप्पितौ' इत्यनेनानुदात्तेन शबकारेण सह 'अतो गुणे' इति पररूपे कृते 'एक देश उदात्तेनोदात्तः' इत्युदात्तः । थसस्तमादेशः । तस्य 'तास्यनुदात्तेन्ङिददुपदेशात् -' इत्यनेनादुपदेशात्परत्वादनुदात्तत्वम् । तस्य 'उदात्तादनुदात्तस्य-' इति स्व' रेतः । नन्वत्र तमिति स्वरितमाश्रित्य 'अनुदात्तं पदम् -' इति परिभाषया शेषनिघात स्यादिति चेन्मैवम् । यथोद्देशपक्षाश्रयणेनेयं परिभाषा त्रिपाद्यां न प्रवर्तते इत्यत्र ज्ञापकं तव्यतस्तित्त्वं 'यतोऽनाव:' इति च । सति शिष्टेति । यो हि यस्मिन् सति शिष्यते स सतिशिष्टः तस्य बाघको भवतीत्यर्थः । एतच्च सति शिष्टस्य बाधकत्वं न्यायसिद्धम् । तथा हि उदात्तस्वरितविधिभिरेकवाक्यतामापन्नया - नया शेषनिघातः क्रियते तत्रोत्सर्गस्यापवादस्य वा चरमा या प्राप्तिस्तत्रास्या उपस्थाने पूर्वा प्रवृत्तिर्बाध्यते । तद्यथा औपगवत्वमित्यत्राण्प्रत्यये त्वप्रत्यये च 'आयु. दात्तश्च' इति प्रवर्तमानं स्वस्यैव प्रथमप्रवृत्तिं बाधते द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्ठापयतीति दिक् । ननु यदि सति शिष्टः स्वरो बलीयस्तर्हि सति शिष्टत्वाद्विकरणखरोऽपि बलीयः स्यात् । तथा च गृणीत इत्यादि मध्योदात्तं पदं स्यादत ह
?
अन्यथा 'अन्तोदात्ताद्त्तरपदादन्यतरस्याम्' 'ह्रखनुड्भ्यां मतु' बित्यादिभिरपि खरे कृते शेषनिघातो न स्यात् । किंचाऽग्ने भदं करिष्यसीत्यादौ ककारनिष्ठस्वरितत्वमादाय स्प्रभृतीनां निघातः स्यात् न हि तत्र परिभाषाया उक्तिसम्भवोऽस्तीति वाच्यम्, अस्य स्वरितस्याऽसिद्ध वेनाऽदोषादिति दिक् । ननु 'गोपायत' मित्यादौ गुपेरपि धातुत्वात्तन्निमित्तको कारोदानत्वस्य प्रत्ययस्वरनिमित्तक 'पा' कारोदात्तत्वस्य च श्रवणापत्तिरत यह सतिशिष्टेति । तस्मिन्सति विहितेत्यर्थः । सतीत्यस्य उत्पन्ने इत्यर्थः, 'अस भुवि' इति स्मरणात् । ' यागात्स्वर्गो भवति' इत्यादौ भवतेरुत्पत्त्यर्थकत्वात् । एतच्च न्यायसिद्धम्। यदा यदा यो य उदात्तस्वरितविधिः प्रवर्त्तते तदा तदा तेन सह 'अनुदात्तं पदमिति एकवाक्यतया प्रवर्तते । ततश्चोत्सर्गस्यापवादस्य वा यस्यैव चरमा प्रवृत्तिस्तदेकवाक्यतापन्नयाऽनया लक्ष्यं व्यवस्थाप्यते । अत एवौपगवत्वमित्यत्राऽण्प्रत्यये त्वप्रत्यये आवृत्त्या 'आयुदात्तचे 'ति प्रवर्त्तमानं स्वस्यैव प्रथमप्रवृत्तिबाधेन द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्ठापयति । 'आद्युदात्तश्च' ' धातो:' इत्यादीनां निमित्तभेदेन भिन्नत्वात् । एवञ्च यदा प्रत्ययाद्युदात्तत्वं तदा गुपो निहतत्वम्, ततो धातुत्वे पुनर्धातु