SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४५६ ] सिद्धान्तकौमुदी । यित्वा शेषं तत्पदमनुदात्ताकं स्यात् । गोपायत नः । 1 [ साधारणस्वर अत्र 'सनाद्यन्ताः - ' विधेये त्रयाणां वर्जनम्। बृहस्पतिशब्दो हि वनस्पत्यादित्वादायुदात्त इति स्थितम् । गोपायतमिति । गुप इत्यस्य 'धातो' इत्यन्त उदात्तः । ततः श्रयः प्रत्ययः 'आयुदा दनुदात्तस्येति विषये शेषनिघाताप्रवृत्त्या तयोश्चारितार्थेन भवदुक्तार्थे दृढतर मानाभावात् । किं च 'कर्तव्यं' तत्रे' 'कर्तव्यं' क्के' 'त्यादौ 'कण्ठ्यः क्के'', 'कण्ठ्यंस्तत्रे''त्यादौ 'नोदात्तस्वरितोदय' मिति 'उदात्तादनुदात्तस्य' इत्यस्य निषेधविषये तव्यतस्तित्त्वं 'यतोऽनाव' इति चरितार्थमिति ज्ञापकं दुरुपपादम् । तस्मादत्र लक्ष्यानुसारेण 'अनुदात्तं पद' मित्यस्याऽधिककार्यार्थात्वरितत्व प्रतिज्ञानादसिद्धेऽप्रवृत्तिः । यथोद्देशत्वन्त्वस्या न युक्तम् । अत्रैव सूत्रे 'कार्यकालं सञ्ज्ञापरिभाष'मिति भाष्यविरोधात् । अत एव आमलकीज इत्यादी 'दीर्घकाशे' त्यपेक्षयाऽन्त्यात्पूर्व बह्वच इति परत्वादित्युपपद्यते । अन्ययोभयोः सम्भवेनाऽसम्भवाऽभावाद्विप्रतिषेधानुपपत्तिः । कार्यकालत्वे तूमाभ्यामप्यस्यैकवाक्यतया तेन वर्ज्यमानताऽनेन वेत्युपपद्यते विरोधः । अत एव 'अनुदात्तं पदमित्यस्याधिकारवे षाष्ठ एकः सगृहीतः, येऽन्ये सप्ताध्यायां खरास्ते न सङ्गृ " स्युरिति षाष्ठभाष्योक्तं सङ्गच्छते । अन्यत्वे षाष्ठस्य प्रतियोगित्वेन षाष्ठस्यापि सप्ताध्याय्यन्तर्गतत्वप्रतीतेः। श्रष्टमे प्रथमे पादेऽनुदात्तस्यैव विधानम्, त्रिपाद्यान्तूक्त रीत्याऽप्रवृत्तिरेवेति तद्भावः। श्रत एव देवदत्तेत्यादौ प्लुताऽसिद्धत्वात्पूर्वं षाष्ठायुदात्तत्वे ततः प्लुते तदेकवाक्यतापन्न शेषनिघाताऽभावेनोदात्तत्रयसमावेशः । न च षाष्ठे प्रवृत्तेऽसिद्धेनाऽनेन सिद्धस्य तस्य कथं निवृत्तिरिति वाच्यम् बाधकाभावात् । ध्वनितं चेदं 'गुरोरनृतः' इत्यत्र भाष्ये । श्रत एव कन्योऽनूपे इत्यत्र न शेषनिघातः । कन्याशब्दो हि 'कन्याराजमनुष्याणामन्तः' इत्यन्तस्वरितः । अनूपश्च 'अनोरप्रधानकनीयसी' इत्यन्तोदात्तः । तयोः स्वरिताऽनुदात्तयोः सवर्णदीर्घ श्रान्तर्यतः स्वरितः । तदेकवाक्यतापन्नशेषनिघातेन 'पे'कारस्यानुदात्तत्वं स्यात् । इष्यते तूदात्तखरितयोः समावेशः । मम तु एकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तत्स्वरस्यापि तत्त्वेन नाऽनेनैकवाक्यतेति न दोषः । स्पष्टञ्चेदं 'स्वरितो वाऽनुदात्ते पदादा' इति सूत्रे भाष्ये इत्याहुः । गोपायतमिति । गुपेः 'धातोः' इत्यन्तोदात्तः । ततः प्रत्ययस्वरेणायुदात्ते आये गोपायेत्याया - न्तस्य धातुत्वाद्धातुखरे यकाराsकार उदात्तः । तस्य शबकारेण पित्त्वादनुदात्तेनैकादेश उदात्तः । तमित्यस्य लसार्वधातुकस्वरेणानुदात्तस्य 'उदात्तादनुदात्तस्य' इति स्वरितः । न च अनुदात्तातिरिक्तस्वरयो र समावेशस्य ज्ञापनात्कथमत्रोदात्तस्वरितयोः समावेश: ? न च सन्निपातपरिभाषया निर्वाहः, तस्या अनित्यत्वेन स्वरविधावप्रवृत्तेः,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy