SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता [ ४५५ वर्जनम् । एकप्रहणं विधीयमानस्योपलक्षणम् । तेन 'तवै चान्तश्च युगपत्' इति द्वयोवर्जनम् । इन्द्राबृहस्पती इत्यत्र 'देवताद्वन्द्वे च' इति सूत्रेण पदद्वयस्यापि प्रकृतिस्वरे स्वरविधीति । सूत्रेऽनुदात्तशब्दोऽर्शश्राद्यजन्तः, पदसामानाधिकरण्यात् । अनुदात्तस्य विधीयमानत्वात्तद्भिन्न उदात्तः स्वरितो वा वर्ज्यत इति तद्विधावेवाऽस्योपस्थानमित्याह यस्मिन् पदे इति । अत्र पदत्वे भाविन्यन्तरङ्गत्वात्पूर्वमेव स्वर - प्रवृत्तिः । पदग्रहणन्तु परिमाणार्थम् । श्रत एव ' धातो' रित्यादौ न दोषः । तद्वयावत्त्यंन्तु पदसमुदायः । यस्य पदत्वं भावि तस्यैवैकवर्जमनुदात्तमित्यर्थात् । स्पष्टञ्चेदं विकाराधिकारे 'अनुदात्तादेवे 'ति सूत्रे भाष्यकैयटयोः । तमेकमिति । एकप्रहणं विधीयमानोपलक्षणम् । एवञ्च 'तवै चाऽन्तः' इत्यादौ द्वादीनां वर्जनसिद्धिः । 'इन्द्रो बृहस्पती" इत्यत्र 'देवताद्वन्द्वे च' इति पदद्वयस्यापि प्रकृतिस्वरे विधेये त्रयाणां वर्जनम् । बृहस्पतिशब्दो हि वनस्पत्यादित्वाद् युदात्त इति बोद्ध्यम् । [ नैचैवं 'समाने ख्यः स चोदात्तः' इत्यनेन प्रत्ययोदात्तत्वस्य सादेशोदात्तत्वस्य चैकेनैव सूत्रेण विधानादुभयोर्वर्जनापत्तिरिति उदात्तद्वयश्रवणं स्यादिति वाच्यम्, 'तवै चान्तश्च' इत्यादौ युगपद्द्महणेन यत्नं विनोमयोरेकत्राऽसमावेशज्ञापनादिति भावः ] । अत्र यस्मिन् पदे यस्यामवस्थायां यस्याऽच उदात्तादिर्विधीयते तत्र पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इति बोद्ध्यम् । स्पष्टञ्चेदम् 'आयुदात्तश्चे 'ति सूत्रे पदमञ्जर्याम् । नचैवं 'चिनुत' इत्यत्र नोर्निघातो न सिद्ध्यति, तस्योदात्तत्व प्रवृत्तिकालेऽसनिहितत्वादिति वाच्यम्, युगपद्द्महणेनाऽनुदात्तातिरिक्तखर यो र समावेशज्ञापनःत्तत्सिद्धेः । वस्तुतस्तु 'आयुदात्तश्च' 'द्वित्रिभ्यां पाद्दन' 'पुंसोऽसुङि 'ति सूत्रस्थ भाष्यप्रामाण्येन यावत्पदत्वं भावि तावत्संनिहिताऽजन्तस्य निघातप्रवृत्तिरित्यर्थाङ्गीकारेणाऽदोषात् । 'चिनु' इति तु 'अन्तरङ्गानपि' इति न्यायेन साध्यम् । एवं च ' आगमा अनुदात्ताः' इति नाऽपूर्वमितीति दिक् । यत्तु इयं यथोद्देशैव न कार्यकालेति त्रिपायांन प्रवर्त्तते, अत एव तव्यतस्तित्त्वं चरितार्थम् । तद्धि 'तित्खरित' मित्यन्तस्वरितार्थम् । तत्र यन्त इति वर्तते । त्रिपाद्यां परिभाषात्रवृत्तौ प्रत्ययस्वरेणायुदात्तत्व शेषनिघातेनाऽनुदात्तस्यान्तस्य 'उदात्तादनुदात्तस्ये 'ति स्वरिते शेषनिघातेन सिद्धौ तद्वैयर्थ्यं स्पष्टमेव । एवं 'यतोऽनावः' इत्यपि ज्ञापकम् । अन्यथा 'यतोऽनाव:' इत्याद्युदात्ते कृते शेषनिघाते 'उदात्तादनुदात्तस्येति स्वरिते शेषनिघाते तत्त्वप्रयुक्तान्तस्वरितादविशेषेण तद्वैयर्थ्य स्पष्टमेवेति प्राञ्चः । तन्न । सन्निपातपरिभाषया 'उदात्ता १ – कोष्ठान्तर्गतः क्वाचित्कः पाठः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy