SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४५४ ] सिद्धान्तकौमुदी। [साधारणस्वर स्वरप्रक्रिया । ७०। ३६५० अनुदात्तं पदमेकवर्जम् । (६-१-१५८) परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जअभीषुण इति । 'इकः सुनि' इति दीर्घः । एवं मोषुण इत्यत्रापि । सर्वत्रोदाहरणे अस्मदादेशो नस् । इति श्रीमन्मौनिकुलतिलकायमानगोवर्धनभट्टात्मजरघुनाथभट्टात्मजेन जयकृष्णेन कृतायां सुबोधिन्याख्यायो सिद्धान्तकौमुदीव्याख्यायां वैदिकी प्रक्रिया समाप्तिमगमत् । अनुदात्तं पदम् । परिभाषेयमिति । नाधिकारोऽस्वरितत्वात् । 'श्रायुदात्तश्च' 'समानोदरे शयित ओ चोदात्तः-' इत्यादौनामसंग्रहश्च स्यात् । परिभा. षाया लिशापेक्षायामाह स्वरविधीति । सूत्रे अनुदात्तशब्दोऽर्शायजन्तः पद. सामानाधिकरण्यात् । अत्रानुदात्तस्य क्रियमाणत्वात् तद्भिन्न उदात्तः स्वरितो वा वयंत इत्याह तमेकमिति । यत्तदोनियसंबन्धाद्यस्योदात्तस्वरितविधानं तस्यैव । इत्यष्टमः । इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टविरिचिते सिद्धान्तकौमुदीव्याख्याने लघुशब्देन्दुशेखरे वैदिकी प्रक्रिया समाप्ता। साधारण-प्रकृति-प्रत्यय-समास-तिक्न्तविषयकतया पञ्चभिः प्रकरणैरु हात्तादिस्वरान् व्युत्पिपादयिषुः साधारणस्वरांस्तावदाह अनुदात्तमिति । एकवर्जमिति । 'द्वितीयायाश्चति णमुल् । ननु तत्र त्वरायामित्यर्यकपरीप्सायामित्यनुवर्तत इति चेत् , इहाप्यस्ति परीप्सा। तथा हि-यत्रोदात्तादिविधीयते तत्र तत्समकालमेव शिष्टमनुदात्तं कर्तव्यम् , न तु विलम्बितव्यमित्यर्थात् । एतच्च णमुविधायके पदमार्यो स्पष्टम् । यद्वा परीप्सायामिति प्रायिकम् । एतच्चाऽत्रैव पदमअों स्पष्टम् । परिभाषेयमिति । नाऽधिकारः, अखरितत्वात् , एकवर्जमित्यस्य वैयर्थ्यांपत्तेश्च, तत्तत्सूत्रविधेयानां वचनसामर्थ्यादेव निघाताऽप्रवृत्तेः । किं च 'श्राद्युदात्तश्च' 'समानोदरे शयित ओ चोदात्तः' इत्यायसङ्ग्रहापत्तेः । नापि विधिः। तथा सति क एको वर्जनीय इति न ज्ञायेत । एवञ्च विनिगमनाविरहाच्छास्त्रविहितोदात्तखरितकानां सर्वेषामेव वर्जनापत्तौ 'आमलकीजः' इत्यादावुदात्तचतुष्टयं श्रूयेत। तत्र हि ीष् प्रत्ययस्वरेणोदात्तः। 'गतिकारक' इति कृत्स्वरः, 'दीर्घकाशतुषभ्राष्ट्रवटजे' इति पूर्वपदान्तोदात्तत्वम् , 'अन्यात्पूर्व बह्वचः' इति लकाराऽकारस्योदात्तत्वमिति विरोधाऽभावाद्युगपदुदात्तचतुष्टयं स्यात् , अस्य तु मकाराऽकारोऽवकाशः स्यादिति भावः। परिभाषाया लिभमाह
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy