________________
अष्टमोऽध्यायः] सुबोधिनी शेखरसहिता । [४५३ अभ्यस्तोत् । ३६४८ छन्दस्य॒दवग्रहात्। (८-४-२६) ऋकारान्तादवमहात्परस्य नस्य णः । नृमणाः । पितृयाणम् । ३६४६ नश्च धातुस्थोरुषुभ्यः । (८-४-२५.) धातुस्थात् । अग्ने रक्षा णः। शिक्षा णो अस्मिन् । उरु एस्कृधि । अभीष णः । मो षु णः । इत्यष्टमोऽध्यायः ।
इति सिद्धान्तकौमुद्यां वैदिकी प्रक्रिया । इत्यतो नेति वर्तते । तर निषेधविकल्पे विधिविकल्प एव फलतीत्याह मूर्धन्यो वा स्यादिति । अभ्यष्टौदिति । ‘उतो वृद्धिलुकि हलि' इति वृद्धिः। छन्दस्यदव । अवगृह्यते पिच्छिद्य पठयते इत्यवग्रहः । ऋच्चासाववग्रहश्च ऋदवप्रहस्तस्मात् । नृमणा इति । अत्र संहिताधिकारात्संहिताकाल एव एतेषां णत्वं पदकाले चावग्रहः क्रियते । तेनावग्रहयोग्यत्वाकारोऽवग्रह इत्युक्तः, न तु तद्दशापन्नः । अत्र हि नृमना इति पर कालेऽवगृह्यते । नश्च । धातुस्थानिमित्तादुत्तरस्य उरुशब्दात् षुशब्दाच्च परस्य नस इत्येतस्य णः स्यात् । धातौ तिष्ठतीति धातुस्थो रेफः षकारश्च । उरु इति स्वरूपग्रहणम् । षु इति कृतषत्वस्य सुजओ ग्रहणं न सप्तमी. बहुवचनस्य । तेन इन्द्रो धर्ता गृहेषु नः इत्यादौ न । नसिति नासिकादेशस्य नसादेशस्य च सामान्येन प्रहणम् । रक्षा ण इति। रक्षेति लोटो मध्यमपुरुषैकवचनान्तं 'द्वयचोऽतस्तितः' इति दीर्घः । उरुणस्कृधीति। कृो लोट् सेर्हिः श्रुशृणुपृवृभ्यश्छन्दसि' इति हेधिः । 'कः करत्' इत्यादिना विसर्जनीयस्य सत्वम् ।
प्राप्तस्य षत्वमात्रस्याऽपि विकल्पः । अभ्यष्टौदिति । 'उतो वृद्धिलुकि' इति वृद्धिः । छन्दस्यदव । पूर्वपदादिति वर्तते । अवग्रहविषयऋकारान्तपूर्वपदादुत्तरस्य नस्य णः । अवग्रहविषयत्वञ्च अवग्रहयोग्यत्वम् । संहिताकाले णत्वम् , पदकाले चावप्रहात् । अत एव पदपाठे णत्वं न प्रयुञ्जते । नश्च धा। धातुस्थान्निमित्तादुरुशब्दात्षुशब्दाच परस्य नस्शब्दस्य नस्य णो भवति । धातौ तिष्ठतीति धातुस्थम् । षु इति कृतषत्वस्य सुओऽनुकरणम् । तेन 'गृहेषु नः' इत्यत्र न। 'न'सिति नासिकादेशस्याऽस्मदादेशस्य च सामान्येन प्रणम् । तत्र प्रकृतसूत्रेऽस्मदादेश एव कार्यो, तस्यैव धातुस्थात्परत्वसम्भवात् । 'उपसर्गादनोत्परः' इत्युत्तरसूत्रे तूभयोः कार्यित्वमिति हरदत्तः । 'उत्तरसूत्रे नस्प्रहणानुत्तेने फलम् । भाष्ये 'अनोत्पर' इत्यस्य स्थाने बहुलप्रहणस्य कृतत्वेन तेनैव सर्वाऽनिष्टवारणा'दित्यन्ये । रक्षा ण इति । रक्षेति लोरमध्यमपुरुषैकवचनम् , 'यचोऽतस्तिकः' इति दीर्घत्वम् । एवं दानकर्मणः शिक्षतेः शिक्षा ण इति । उरु=अधिकम् अभीषु ण इति । 'इक सुमि' इति दीर्घ इति शिवम् ।