SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५२ ] सिद्धान्तकौमुदी [ वैदिकीप्रक्रिया पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः। युवं हि स्थः स्वपती । ३६४४ सुञः। (८-३-१०७ ) पूर्वपदस्थानिमित्तापरस्य सुनो निपातस्य सस्य षः। ऊर्ध्व ऊषु णः। अभीषु णः । ३६४५ सनोतेरनः। (८-३-१०८) गोषा इन्दो नृषा असि । अनः किम्-गोसनिः । ३६४६ सहेः पृतनाभ्यां च । (८-३-१०६) पृतनाषाहम् । ऋताषाहम् । चात् ऋती. षाहम् । ३६४७ निव्यभिभ्योड्व्यवाये वा छन्दसि । (८-३-११६ ) सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टोत् । पूर्व पदं पूर्वपदमिति सामान्यत आधीयते न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थ छन्दोग्रहणं तूत्तरार्थ कर्तव्यमेव । ऊषुण इत्यादि । 'इकः सुनि' इति पूर्वपदस्य दीर्घत्वं नस् इत्यादेशस्य 'नश्च धातुस्थोरुषुभ्यः' इति त्वम् । सनोतरनः। अन्नन्तस्य सनोतेः सस्य षः स्यात् । गोषा इति । 'जनसनखनकमगमो विट्' । 'विड्वना' इत्यात्वम् । गोस. निरिति । 'छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्ययः। निव्यभिभ्यो । 'न रपर' च । पूर्वपदमात्रस्य ग्रहणमित्याशयेन षत्वाऽभावे उदाहरति यवं हि स्थ इति । सुञः। सुमिति निपातग्रहणम्। छन्दसीति वर्त्तते । अभिषुण इति । 'इकः सुनीति दीर्घत्वम् । 'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । सनोतेरनः । अनका. रान्तसनोतेरिएकुभ्यां परस्य सस्य षश्छन्दसि । गोषा इति। 'जनसने ति विट । "विड्वनो रित्यात्वम् । गोसनिरिति । 'छन्दसि वनसनरक्षिमथा'मितीन् प्रत्ययः । 'पूर्वपदादित्येव सिद्ध नियमार्थमिति भावः । केचिद्गोसनेः सवनादिपाठात्सिद्धिमङ्गीकृत्य सिसानयिषतीति नियमफलं वदन्ति । यद्यप्यण्यन्तः सूत्रे उपात्तस्तथाप्यण्यन्तस्य प्रति. षेधवचने फलाऽभावागण्यन्तार्थत्वं विज्ञायते। 'स्तौतिण्योरेवेति नियमात् 'सिस. निषती'त्यादौ षत्वाऽप्राप्तेरिति तदाशयः । सिसनिषतेरप्रत्यये 'सिसनी रिति नियमफलमित्यन्ये । अत्र सन् षत्वभूतो नेति 'स्तौतिण्योरिति नियमाऽविषयोऽयम् । एवञ्च सामाऽभावागण्यन्तस्य नियमाऽभावात् 'सिषाणयिषती'त्यादौ षत्वं भवत्येव । सामर्थ्यात्पूर्वपदाऽभावेऽपि नियमप्रवृत्तिरिति तद्भावः । सर्वच्चेदं भाष्ये स्पष्टम् । सहेः प्र। छन्दसीति वर्तते । चकारोऽनुक्तसमुच्चयार्थ इत्याशयेनाह चादिति। ऋतिशब्दस्य संहितायां 'नहिवृतीति दीर्घः, षत्वं च, उभयत्र संहिताधिकारात् , अवप्रहे ऋतिसाह. मित्येव । 'छन्दसि सहः' इति शिवः । ऋतिशब्दस्य 'अन्येषामपि' इति दीर्घ इति मनोरमा। निव्यभि । एभ्यः परस्य सुनोत्यादेः सस्याऽवयवाये षत्वं वा। प्रकरण.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy