SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः ] सुबोधिनी - शेखरसहिता । [ ४५१ 1 म॒स्य | परिवीत इ॒ळस्पदे । दे॒वस्पयो दिधिषाणाः । रायस्पोषं॒ यज॑मानेषु । ३६३६ इडाया वा । (८- ३ - ५४) पतिपुत्रादिषु परेषु । इळा स्पुत्रः । इळायाः पुत्रः । इळयास्पदे । इळायाः पदे । 'निसस्तपतावना सेवने ' (२४०३) निजः २कारस्य मूर्धन्यः स्यात् । निष्टतं रक्षो निष्ट॑प्ता भरा॑तयः । अनासेवने किम् - निरपति । पुनः पुनस्तपतीत्यर्थः । ३६४० युष्मत्तत्ततक्षुष्वन्तः पादम् । ( ८३ - १०३ ) पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिषु परेषु । युष्मदादेशाः स्वंत्वातेतवाः । त्रिभिष्वं देव सवितः भिवा । श्रभिष्टे । अ॒प्स्व॑ग्ने॒ धष्टव॑ । अ॒ग्निष्टद्विश्व॑म् । द्यावा॑ पृथिवी निष्टतः । अन्तःपादं किम् - तदभिस्तदर्यमा । यन्म॑ आ॒स्मनो॑ मि॒न्दाभू॑द॒ग्निस्वत्पुन॒राहा॑जा॒तवे॑दा॒ विच॑र्षणिः । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः | ३६४१ यजुष्येकेषाम् । ( ८-३ - १०४ ) युष्मत्तततनुषु परतः । सस्य मूर्धन्यो वा । प्रचिभिष्ट्वम् । श्रनिष्टे अग्रम् । श्रर्चिभि. ष्टततुः । पत्ते श्रर्चिभिस्त्वमित्यादि । ३६४२ स्तुतस्तोमयोश्छन्दसि । ( ८-३ - १०५ ) नृभिष्टुतस्य नृभिः स्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् । ३६४३ पूर्वपदात् । ( ८-३ - १०३ ) 1 स्पतिमिति । 'तत्पुरुषे कृति बहुलम् इति षष्ठयलुक्। निसस्तपता । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्नित्यर्थः । युष्मत्तत्ततक्षुष्विति । सकारान्तानुकर - णात् परस्य सुप्सकारस्य 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति षत्वम् । 'हस्वात्तादौ -' इत्यतः तादाविति वर्तते । तदाह तकारादिष्विति । एतयुष्मद एव विशेषणं नेतरयोरव्यभिचारात् । त्वं त्वा ते तवा इति । एतेषामेव संभव इत्यर्थः । स्तुतस्तोमयोः । एतयोः परतः सस्य षत्वं स्यात् । पूर्वपदादित्येव सिद्ध इति । दायमिति । इडाया इति षष्ठ्यन्तानुकरणम् । पतीत्याद्यनुवर्त्तते । निसस्तपता । अस्य लोकवेदसाधारणत्वादत्रोपन्यासश्चिन्त्यः । उदाहरणे सकृत्तप्तमित्यर्थः । युष्मत्तत । 'इखात्तादौ -' इत्यतस्तादाविति वर्तते । तच्च युष्मदो विशेषणम्, नेतरयोः, श्रव्यभिचारात् । ततक्षुष्विति सान्तानुकरणात्परस्य सुप्सकारस्य 'नुम्विसर्जनीये 'ति षत्वम् । पूर्वस्य ष्टुत्वम् । सूत्रे तादाविति विशेषणाद्युष्मदादेशानां प्रहणम्, तदाह त्वमि त्यादि । यजुष्ये । यजुर्विषय इत्यर्थः । स्तुतस्तो । एकेषामिति वर्त्तते । प्रपञ्चार्थमिति । पूर्व पदं पूर्वपदमिति सामान्येन तत्राश्रीयते न तु समासावयव एव इति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । पूर्वपदात् । छन्दसीति वर्तते, एकेषामिति ·
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy