________________
४५०]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया अग्निः प्र विद्वान् । परुषः परुषः । ३६३५ काकरत्करतिकृधिकृतेष्वनदितेः । (८-३-५०) विसर्गस्य सः स्यात् । प्रदिवो अपस्कः। यथा नो वस्य॑सस्करत् । सुपेशसस्करति । उरुणस्कृधि । सो मं न चाहं मघवस्सु नस्कृ. तम् । अनदितेरिति किम्- या नो अदितिः करत् । ३६३६ पञ्चम्याः परावध्यर्थे । (८-३-५१) पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः। विस्परि प्रथमं जज्ञे । अध्यर्थे किम्-दिवस्पृथिव्याः पर्योजः। ३६३७ पातौ च बहुलम् (८-३-५२) पम्चम्या इस्येव । सूर्यो नो दिवस्पातु । ३६३८ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । (८-३-५३ ) वाच. स्पति विश्वकर्माणम् । दिवस्पुत्राय सूर्याय । दिवस्पृष्ठं भन्दमानः । तमसस्पार
परुषः परुष इति । वीप्सायां द्विवचनम् । कः करत् । करिति कृत्रो लुङ् ‘मन्त्रे घस-' इत्यादिना च्लेल्क् तिपि गुणः । हल्ङ्यादिलोपः । 'बहुलं छन्दस्यमाङयोगेऽपि' इत्यडभावः । करदिति कृञ एव लुङ् । 'कृमृदृरुहिभ्यश्छन्दसि' इति च्लेर । 'ऋशोऽङि-' इति गुणः । तरतीति लट् व्यत्ययेन शप् । कृधीति लोट् मेर्हिः । 'श्रुशृणुपवृभ्यश्छन्दसि' इति हेर्धिरादेशः। कृत इति कृत्र एव क्तः। पर्योज इति । अत्र परिः सर्वतोभावे । पातौ च । क्वचित्पठ्यते पताविति । धातुनिर्देश इति । अन्ये तूदाहरणार्या लोवनया लोडतान करणं मन्यन्ते । षष्ठयाः । वाच
एवमुत्तरसूत्राण्यपि । करिति । कृमो लुङ् । 'मन्त्रे घसेति च्लेर्नुस् । तिपि गुणः । तिपो हल्ङयादिलोपः । 'बहुलं छन्दसी'त्यडभावः । करदिति । कृष एव लुङ् । 'कृमृ' इति च्लेरङ् । करतीति । लट् । व्यत्ययेन शप् कृधीति । कृलो लोट। सेहिः। 'बहुलं छन्दसीति शपो लुक , छान्दसत्वाद्विकरणाऽभावो वा। 'श्रुशृणुपकवृभ्यः' इति हेर्षिः। कृतमिति । कृषः क्तः। सः स्यादिति । षत्वस्याप्युपलक्षणम् । अत एवाऽदिति प्रतिषेधः । यत्र तु 'शं नः कर'दित्यादौ सत्वं न दृश्यते तत्र छान्दसत्वात्सत्वाऽभावो बोध्यः । पञ्चम्याःप। अध्यर्थे इति परेविशेषणम् । दिवस्परीति । दिव उपरीत्यर्थः। व्यत्ययेन षष्ठीस्थाने पञ्चमी । पर्योज इति । अत्र परिः सर्वतोभावे । पातौ च । न च भवति-परिषदः पातु' । पाताविति लोडन्तं 'पातु' इत्यस्याऽनुकरणम् । षष्ठयाः प। षष्ठीविसर्गस्य सादेशः पत्यादिषु परेषु । वाचस्पत्यादौ-'तत्पुरुषे कृती'त्यलुक् । षष्ठया इति किम् ? मनुः पुत्रेभ्यो