________________
४४८]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया मतुवसो रु संबुद्धौ छन्दसि । (८-३-१)रु इत्यविभक्तिको निर्देशः । मस्वन्तस्य वस्वन्तस्य च रुः स्यात् । 'प्रलोऽन्स्यस्य' (४२) इति परिभाषया नकारस्य । इन्द्र महत्व इह पाहि सोमम् । हरिवो मेदिनं स्वा। 'छन्दसीरः' (३६००) इति वस्वम् । ३६२६ दाश्वान्साबान्मीदवांश्च । ( ६-१-१२) एते कस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय । * वन उपसंख्यानम् । कनिव्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरिवः । इणः क्वनिप् । ३६३० उभ. यथर्नु । (८-३-८) अम्परे छवि नकारस्य रुर्वा । पशूस्तांश्चके। ३६३१
नार्थत्वमेव हेतुः सूत्रारम्भस्येति । मतु । अनुबन्धपरित्यागेन सकारान्तस्य वस् इत्यस्य मतुपा सह द्वन्द्वः । अल्पाच्तरस्यापि सौत्रः परनिपातः । मरुत्व इति । मरुतो यस्य सन्तीति मतुप् । “झयः' इति वत्वं 'तसौ मत्वर्थे' इति भत्वाजश्त्वं न । हरिवो मेदिनमिति । हरयो विद्यन्ते यस्येति मतुप् । हरिच्छन्दात्संबुद्धयेकर वने 'उगिदचाम्-' इति नुम् । हल्ङयादिलोपे संयोगान्तलोपे च कृते नकारस्य रुः ‘संयो. गान्तलोपो रुत्वे सिद्धो वक्तव्यः' इति वचनाद् 'हशि च' इत्युक्तम । प्रसङ्गादाह दाश्वानिति । क्वनिब्वनिपोः सामान्येन ग्रहणमिति । अनुबन्धनिर्देशात्तदनुबन्धकपरिभाषाया अनुपस्थानात् वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति इणः 'अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् । 'हवस्य पिति कृति तुक' । तदाह इणः क्वनिबिति । उभयथा। 'नश्छव्यप्रशान्' इति वर्तते। तेनैव प्राप्ते विकल्पार्थ वचनम् । पशूस्तांश्चके इति । पशून् तानिति स्थिते नम्य रुः । पूर्वत्र तस्य वैकल्पिकत्वेन लोके तदादराऽभावाद्वेदे च तदादराद्वैदिक्यामेव लिखितानीति ध्येयम् । मतुवसो रु । पदस्येति वर्तते । प्रसङ्गादाह दाश्वानिति । दाशेः कसा. वद्वित्वमनिटत्वञ्च नित्यते । 'षह मर्षणे' इत्यस्य परस्मैपदं कसुरद्वित्वमनिटत्वमुपधा. दीर्घत्वं च निपात्यते । 'मिह सेचने' इत्यस्मात्कसावद्वित्वमनिट्वं च निपात्यते । सूत्रे एकवचॅनमतन्त्रम् । 'दाश्वास', 'दाशुषः सुत'मिति प्रयोगदर्शनात् । यद्यपीदं लोकवेदसाधारणं तथापि लोके प्रयोगप्राचुर्याऽभावादवोदाहृतम् । मीदव इति । अत्र 'मतुवसो रिति रुत्वम् । 'अत्रानुनासिकः' इत्यादि वसो रुवे फलम् । अनुबन्धस्येहेति । अत एव 'वनो र चेति सूत्रे सामान्य प्रहणमुक्तम् । एवञ्च 'हश्च बौही'त्यादी सामान्यग्रहणस्य निर्बाधत्वे 'जहातेः ककारः सामान्यग्रहणनिर्वाहार्थ इति प्राचां प्रन्थाश्चिन्त्याः । इणः कनिबिति । प्रातरेतीत्यर्थे 'अन्येभ्योऽपि दृश्यन्ते'