________________
अष्टमोऽध्यायः ] सुबोधिनी: शेखरसहिता
( ૭ मारम्भः सवर्णदीर्घश्वस्य शाकल्यस्य च निवृत्यर्थः । यवयोरसिद्धत्वाद् 'उदान्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' ( ३६५७ ) इत्यस्य बाधनार्यो वा । ३६२८
प्लुतस्यासिद्धत्वेन तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति । श्रस्तु प्लुतः सिद्धः । किमायातमिदुतोः ? उच्यते । प्लुतकरणे यत्कार्यं तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वात्सिद्ध एव यणादेशोऽत आह सवर्णदीर्घत्वस्येति । यदीदं नोच्यत अम३ इ इन्द्रम्, पट ३ उं उदकमित्यत्र षाष्ठिकं यणादेशं बाधित्वा सवर्णदीर्घः स्यात् । अग्न३ / याशेत्यादौ च 'इकोऽसवर्णे शाकल्यस्य-' इति प्रकृतिभावः स्यात्तद्बाधनार्थमिदं वक्तव्यमेव । ननु च तन्निवृत्तये यत्नान्तरमस्ति किं पुनस्तत्प्लुतस्य यणादेशो वक्तव्यः सवर्णदीर्घनिवृत्त्यर्थः शाकल - निवृत्त्यर्थश्च । तच्चावश्यं वक्तव्यं य इक् प्लुतपूर्वः न च प्लुविकारः भो इ इन्द्रं भो इयिन्द्रं गायतीति भोशब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात् प्रकृतिभावे प्राप्ते तं बाधित्वा यणादेशः । तदेवं तस्यावश्यकर्तव्यत्वेनैव यणा सिद्धेऽत आह यवयोरिति । तथाचोक्तं वृत्तिकृता - 'किं तु यणा भवतीह न सिद्धं वाविदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवत्यौ । इक् च यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवाद्यम् । तेन तयोश्च न शाकलदीर्घौ यणस्वरबाधनमेव तु हेतुः' । अयमर्थः । 'इको यणचि' इति यणादेशेन किं रूपं प्रसिध्यति यतोऽयमाचार्यः इदुतोय्वों विदधाति तौ चेदुतौ स्वरसन्धिषु सिद्धौ । ममेति सूत्रकारेणैकीभूतस्य वचनम् । एवं चोदिते परिहरति - शाकलदीर्घविधी तु निवर्त्याविति । शाकलस्येदं शाकलं ' कण्वादिभ्यो गोत्रे' इत्यया । पुनश्चोदयतिइक् च यदेति । वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति । स च प्रकृतिभावस्येव शाकलदीर्घविध्ययोरप्यपवादः । ततश्च तेनैव यणा एतयोरपि इदुतोः शाकल - दीर्घो न भविष्यति इति नार्थ एतेन । परिहरति । यणः स्वरेति । यस्वरबाध
प्लुतप्रकरणीय कार्यस्य स्वरसन्धिषु सिद्धत्वज्ञापनेन सिद्धो यणत श्राह सवर्णदीर्घत्वस्येति । 'अम्मा३ इ इन्द्र मित्यादौ । शाकल्यस्य वेति । 'अम्मा३ याशे' त्यादौ । शाकल्यम् -' इकोऽसवर्णे' इति प्रकृतिभावः । ननु भो इ इन्द्रेति स्थिते भोःशब्दस्य छान्दसे प्लुते ततः परस्येकारस्य निपातत्वात्प्रकृतिभावे प्राप्ते यणादेशार्थम् 'इक: प्लुतपूर्वस्य यणादेशो वक्तव्यः, सवर्णदीर्घशाकलनिवृत्त्यर्थ' मिति वचनमावश्यकम् । न च तत्राऽनेन सिद्धि:, इकः प्लुतविकारत्वाभावात् । एवञ्च तेनैव यरिसद्धोऽत श्राह यवयोरसिद्धत्वादुदात्तेत्यादि । तेन हि यणि तस्य सिद्धत्वादयं खसे दुर्वार इति भावः । यद्यपी प्लुतप्रकरणे बहूनि सूत्राणि लोकवेदसाधारणानि तथापि