________________
४४६ ]
सिद्धान्तकौमुदी ।
[ वैदिकीप्रक्रिया
किम् - विष्णुभूते घातयिष्यामि त्वाम् । अदूराद्भूत इति न वक्रव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्रं करोषि गौरिति । श्रप्रगृह्यस्य किम्शोभने माले । * श्रामन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः । श्रग्न३ इ पत्नी वः । ३६२७ तयोर्खावचि संहितायाम् । ( ६-२- १०८ ) इदुतोर्य कारवकारी स्वोऽचि संहितायाम् । श्रग्न३ याशा । पट३ वाशा । अग्न३ यिन्द्रम् | पट३ बुदकम् । श्रचि किम् - श्रग्ना३ इ वरुणौ । संहितायां किम्अग्न३ इ इन्द्रः । संहितायामित्यध्यायसमातेरधिकारः । इदुतोरसिद्धत्वादय
भिवादे 'प्रत्यभिवादेऽशूदे इति प्लुतः । याज्यान्ते ' याज्यान्ते' इति प्लुतः । विष्णुभूते इति । नन्विदं परिगणनस्योदाहरणमयुक्तं यावता सूत्रे एआदूराद्भूत इत्युच्यते श्रत श्रह दूराद्यूत इति न वक्तव्यमिति । अन्यार्थमवश्यं कर्तव्ये परिगणने तेनैव सिद्धत्वाद् अदूराद्भूत इति न वक्तव्यम् । भद्रं करोषि गौरिति । त्रासर्वनामस्थान इति प्रतिषेधात्सौ परतः पूर्वपदं न भवति । शोभने माले३ इति । 'ईदूदेद् -' इति प्रयसंज्ञा । श्रामन्त्रिते इति । अत्राप्ते एव प्लुते वचनम् । अग्न३ इ इति | अग्निशब्दस्य संबुद्धौ रूपं 'सामन्त्रितम्' इति आमन्त्रितसंज्ञा । तयोर्खा । मन्विदं व्यर्थम् 'इको यणचि' इत्यनेनैव सिद्धमत यह इदुतोरसिद्धत्वादिति । ननु सिद्धः प्लुतः स्वरसन्धिषु कथं ज्ञायते । 'प्लुतप्रगृह्या अचि-' इति प्रकृतिभावविधानात् । यस्य हि विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, इति बोध्यम् । इदुतौ 'टेरुदात्त' इत्यधिकारादुदात्तावेव । व्याख्यानादुदात्तग्रहणं प्लुतेनेदुद्याञ्च संबध्यते । प्लुतपदं च अत एवाऽऽद्ग्रहणेनैव संबध्यते, नेदुद्भ्याम् । अदूराद्घृत इति न वक्तव्यमिति । परिगणनसत्त्वे तेनैव सिद्धवादिति भावः । इदच वृत्यनुरोधेन । केचित्तु परिगणनेऽसीदं कार्यमेव । अत्र दूराद्धूतपदं न संबोधनमात्रोपलत्तणम्, किंतु यथाश्रुतमेवेति दूरादाह्रान संवोधनविशिष्टाभिपूजितार्थे 'स्वागच्छ भो माणवकानिभूते' इत्यादौ नाऽस्य प्रवृत्तिरिति न परिगणनेन प्रत्याख्यानं युक्तम् । 'अदूराद्र्धूत इति न वक्तव्यमित्यनुक्त्या भाष्यात्तत्र लाभादित्याहुः । गौरिति । 'सावपि पद'मिति पत्ते वाक्यान्तत्वाऽभावान्न दोषः । पदशब्देन वाक्य - मयुच्यत इति बोद्ध्यम् । श्रामन्त्रिते छन्दसीति । अत्राप्ते प्लुतविकारे इदम् । दूरादाह्वान सत्त्वात्परिगणनाचाऽप्राप्तिः । प्लुतस्तु 'गुरोरनृत-' इत्ते प्राप्नोत्येव । तेन वाक्यान्तपदाऽनन्त्यस्यैव प्लुत इत्यत्र तु न मानम् । तयोर्खा । तयोः = पूर्वसूत्राभ्यां विहितयोरितोरित्यर्थः । ननु 'इको यणचीत्येव सिद्धे इदं व्यर्थमत आह इदुतोरसिद्धत्वादिति । ननु प्लुतस्य प्रकृतिभावविधानात्सामान्यापेक्षज्ञापकात्
1