________________
अष्टमोऽध्यायः ] सुबोधिनी शेखरसहिता। [४४५ न्विहर । ३६२४ अनन्त्यस्यापि प्रश्नाख्यानयोः । (८-२-१०५) अनन्स्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः । अगमः३ पूर्वान् प्रामाइन् । सर्वपदानामयम् । पाख्याने-अगमम् पूर्वान् ग्रामाइन् । ३६२५ प्लुतावैच इदुतौ। (८-२-१०६ ) दूराद्धृतादिषु प्लुतो विहित. खत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ३तिकायन । औ३पगव । चतुर्मात्रावत्र ऐचौ संपद्यते । ३६२६ एचोऽप्रगृह्यस्यादूराद्धृते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ । (८-२-१०७) अप्रगृह्यस्य एचोऽदूराद्धृते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य वर्धस्य इदुतौ स्तः । * प्रश्नान्ता. भिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव । प्रश्नान्ते--अगमः३ पूर्वान् ग्रामाइन् अग्निभूत३ इ । अभिपूजिते-करोषि पट३ उ । विचार्यमाणे-होतव्यं दीक्षितस्य गृह३ इ । न होतव्यमिति । प्रत्याभवादेआयुष्मानधि अग्निभूत३ इ। याज्यान्ते-स्तोमैविधेमाग्नया३ इ । परिगणनं यतीत्युक्ते । प्लुतावै । उदाहरणे 'गुरोरनृतः-' इति प्लुतः। चतुर्मात्राविति। ऐचौ समाहारवर्गों तत्र मात्रा अवर्णस्य मात्रेवर्णोवर्णयोः । तत्र ईदूतोः प्लुते कृते तयोस्तिस्रो मात्रा अवर्णस्य चैका मात्रेति समुदायश्चतुमात्र इत्यर्थः । नन्वत्राधमात्राऽवर्णस्याध्यर्धमात्रेवर्गोवर्णयोरिति । मतेऽर्धचतुर्थमात्रावप्यचौ प्राप्नुतः । सत्यम् , 'चतुर्मात्रः प्लुत इष्यते' इति भाष्यात् समविभाग एवात्राश्रीयत इति भावः परिगणनमाह प्रश्नान्तेत्यादि । 'अनुदात्तं प्रश्नान्ताभिपूजितयोः' अनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति चानुदात्तः स्वरितो वा प्लुतः। अभिपूजिते 'अनुदात्तं प्रश्नान्ताभिपूजितयोः' इति प्लुतः । विचार्यमाणे 'विचार्यमाणानाम्' इति ग्लुतः। प्रत्य
आशीः। प्रेषः=प्रेषणम् । उदाहरणेषु पूर्वतिङन्तमुत्तरमाकाङ्क्षति । अनन्त्यापि प्र। आद्योदाहरणे 'भो अनिभूता३ इ'इति शेषः । तत्रान्त्यस्य तु 'अनुदात्तं प्रश्नान्ताभिपूजितयो'रिति अनुदात्तोऽपि पक्षे इति वृत्तिः । यद्यपि तत्र विकल्पो न श्रुतस्तथाप्यपिशब्देनान्त्यस्याप्यनेन स्वरितप्लुतविधानात्पाक्षिकत्वं फलति । आख्यानमप्रश्नस्योत्तरम् । तदवयवाविति । वचनसामर्थ्याद्वणैकदेशयोरिह ग्रहणम् । उदाहरणे दूराद्धृते 'गुरोरनृत' इति प्लुतः । चतुर्मात्राविति । ऐचोर्मात्राऽवर्णस्य मात्रेवोवर्णयोरिति उत्तरखण्डस्य त्रिमात्रत्वे चतुर्गावतेति भावः । स्पष्टञ्चेदं भाष्ये । अत्र चतुर्मात्रस्याऽच्त्वमपि, तेन प्रत्यकैतिकायनेत्यादौ ङमुडादि सिध्यतीति बोध्यम् । याज्यान्तेष्वेति । अनेनास्य परिगणनत्वं दर्शयति । 'पूर्वार्धस्य श्रा'दिति च्छेदः । अत्राऽऽकारः प्लुतः स प्रश्नान्तेऽनुदात्तः, स्वरितो वा, शेषषूदात्त