________________
४४४ ]
सिद्धान्तकौमुदी |
[ वैदिकीप्रक्रिया
अग्निरिव भायात् । उपमार्थे किम् – कथंचिदाहुः । प्रयुज्यमाने किम्-अग्निर्माणवको भायात् । ३६२१ उपरिस्विदासीदिति च । ( ६-२-१०२) टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्वदासी३त् । अथः स्विदासी३ दिव्यत्र तु 'विचार्यमाणानाम्' ( ३६१६ ) इत्युदात्तः प्लुतः । ३६२२ स्वरितमाम्रेडितेऽस्यासंमतिको पकुत्सनेषु । ( ८- २ - १०३ ) स्वरितः प्लुतः स्यादाम्रेडिते परेsस्यादौ गम्ये । श्रसूयायाम् – अभिरूपक ३ श्रभिरूपक रिक्तं ते श्राभिरूप्यम् । संमतौ -- अभिरूपक ३ अभिरूपक शोभनोऽसि । कोपे - श्रविनीतक ३ श्रविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने — शाक्तीक ३ शालीक रिक्का ते शक्तिः । ३६२३ क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् । ( ८- २ - १०४ ) श्राकाङक्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति३ । उपाध्यायं पदातिं गमयति । प्रार्थनायाम् - पुत्रांश्च लप्सीष्ट ३ धनं च तात । व्यापारणे । कटं कुरु ३ ग्रामं गच्छ । आकाङ्क्ष किम् - दीर्घायुरसि श्रीदी
1
1
प्लुतः स्यात् । अग्निचिद्भाया ३ दित्यत्र न स्यादिति भावः । कथंचिदिति । अत्र कष्टे चिच्छन्दः । अग्निर्माणवको भायादिति । श्रग्निरिव माणवको दीप्यत इत्यर्थः । श्रत्रोपमानार्थस्य गम्यमानत्वादस्ति चिच्छब्दस्य प्रतीतिः । प्रयोगस्तु नास्ति । यद्यन्येषामप्युपमानार्थानामिवादीनामस्ति प्रतीतिस्तथापि चिच्छब्दस्यापि तावदस्तीति भावः । उपरिस्विदासीदिति । अत्रापि विचार्यमाणानामिति विहितस्य प्लुतस्य गुणमात्रं विधीयते । स्वरितमाम्रेडिते । उदाहरणे सर्वत्र 'वाक्यादेरामन्त्रितस्येति द्विर्वचनम् । क्षियाशीः । क्षिया श्राचारोल्लङ्घनम् । इष्टाशंसनमाशीः । दीर्घायुरसि अग्नीदीन्विहरेति । क्षियायां तु न प्रत्युदाहृतं नित्यसाकाङ्क्षत्वात्। न हि स्वयं ह रथेन यातीत्युक्रे श्राचारभेदो गम्यते किं तर्हि उपाध्यायं पदातिं गम
1
भवतः । ‘अग्निचि’दिति व्याचष्टे अग्निरिवेति । कथञ्चिदिति । कृच्छ्रेऽत्र चिच्छन्दः । अग्निर्माणवक इति । श्रग्निरिव माणवको दीप्येतेत्यर्थः । यद्यप्यन्थेषामप्युपमार्थानामिवादीनामस्ति प्रतीतिस्तथापि चिच्छन्दस्याप्यस्ति इति स्यादेव प्लुतः, प्रयोगाऽभावात्तु नेति भावः । चः प्लुतसमुच्चयार्थः । एतदेव ज्ञापयति — 'पूर्वसूत्रे गुणमात्रं विधीयते' इ[ती]ति बोज्यम् । उपरिस्वि । श्रनेन 'विचार्यमाणानामिति विहितप्लुतस्यानुदात्तत्वमात्रं विधीयत इति हरदत्तः । ' उपरी' त्यादेः कृत्यं दर्शयति अधः विदिति । स्वरितमा | उदाहरणे 'वाक्यादेरामन्त्रितस्येति द्वित्वम् । श्रयमपि प्लुतो वैकल्पिकः । क्षियाशीः । क्षिया आचारोलङ्घनम् । इष्टप्रार्थनम् =