________________
अष्टमोऽध्यायः सुबोधिनी-शेखरसहिता। दत्त किमात्थ३ । ३६१६ अनुदात्तं प्रश्नान्ताभिपूजित्योः । (८-२-१००) अनुदात्तः प्लुतः स्यात् । दूराद्धृतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत ३ इ। पट३ उ। अग्निभूते पटो-एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक३ । ३६२० चिदिति चोपमार्थे प्रयुज्यमाने । (८-२-१०१ ) वाक्यस्य टेरनुदात्तः प्लुतः । अग्निचिद्भाया३त् प्रतिपूर्वः शृणोतिः प्रसिद्धः । प्राभिमुख्ये चेति । अत्र 'लक्षणेनाभिप्रती आभिमुख्य' इत्यव्ययीभाव । दत्त किमात्थ३ इति। किं भ्रषे इत्येव पृच्छयते । अत्र श्रवणाभिमुख्यं गम्यते । अनुदात्तं प्रश्नान्त । प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः । नानेन प्लुलो विधीयते किं तु दृगद्धतादिषु विहितस्य प्लुतस्योदात्तत्वे प्रा प्रश्नान्ताभिपूजितयोरनुदात्तत्वगुणमात्रं विधीयते । तदाह दूराद्धतादिविति । तत्रैषा वचनव्यक्तिः । प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदात्तो भवतीति । तत्राभिपूजिते 'दूराद्धते च' इति प्लुत इति । इतरत्र तु अनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति । अग्निभूत२९इति । पट३ उ इति । अगमः पूर्वान् प्रामान् इत्येतद्वाक्यम् अग्निभूते पटी इत्यनन्तरेण समाप्तं तत्र अगम इत्येवमादीनामनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति स्वरितः प्लुतः । अग्निभूते पटो अनयोरनुदात्तः। अभिपूजिते उदाहरण माह शोभन: खल्वसीत्यादि। चिदिति चोप । चिदित्येतन्निपाते उपमानेऽयं प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवतीत्यर्थः । प्लुतोऽप्यत्राविधीयते न गुणमात्रम् । इतीति किम् ? अक्रियमाणे तस्मिन्नुपमानेऽर्थे कस्मित्रिच्छब्दे प्रयुज्यमाने चिच्छब्दः प्लुत इति विज्ञायते । इतिशब्दे तु सति प्रयुज्यमाने इत्येतच्चि छब्दस्य विशेषणं प्लुतस्तु 'वाक्यस्य टेः' इत्यधिकारात्तस्यैव भवतीति मनसि विभाव्योदाहरणमुखेनाह अग्निचिदिव भायादिति । अत्र न चिच्छब्दस्य प्लुतः किं तु भायादित्यस्यैव । अक्रियमाणे तु इतिशब्दे चिच्छब्दस्यैव मुख्यञ्च । हन्त ते इति । प्रार्थिताङ्गीकारो गम्यते । श्राद्ययोरर्थयोः प्रतिश्रवणशब्दे गतिसमासः, तृतीये 'लक्षणेनाभिप्रती' इति अव्ययीभावः । क्रमणोदाहरणानि । अनुदात्तं प्र । प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः । दूराद्धतादिष्विति । प्रश्नान्ताभिपूजितयोर्यः प्लुतः सोऽनुदात्तो भवतीत्यर्थादिति भावः । तत्राऽभिपूजिते 'दूराद्धते चेति प्लुतः । इतरत्र 'अनन्यस्यापि प्रश्नाख्यानयो'रिति । श्राद्योदाहरणे 'अगमः पूर्वा ३न् प्रामान्' इत्यादिः । टेरनुदात्त इति । 'अगम' इत्यादौ अनन्यस्यापी'ति प्लुतः स्वरितः। प्लुत इति । स च पूर्वभागस्य, उत्तरस्य तु उदात्ताविदुतौ