________________
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया चौर३ । ३६१५ अङ्गचुक्तं तिङाकाङ्क्षम् । (८-२-६६) अङ्गेत्यनेन युक्त तिङन्तं प्लवते । अङ्ग कूज३ इदानी ज्ञास्यसि जाल्म । तिङ् किम्-अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्ष किम्-अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि । ३६१६ विचार्यमाणानाम् । (८२-६७) वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा३ इ। न होतव्यमिति । होतन्यं न होतन्यमिति विचार्यते । प्रमाणैर्वस्तु तत्त्वपरीक्षणं विचारः । ३६१७ पूर्व तु भाषायाम् । (८-२-६८) विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु३ रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते । ३६१८ प्रतिश्रवणे च । (८-२-६६ ) वाक्यस्य टः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि ३ । नित्यः शब्दो भवितुमर्हति३ । भागद्वयोपलक्षणमित्यर्थः । एतच्चाडितस्य भर्त्सने वृत्त्यसंभवाल्लभ्यते । अङ्गयुक्तम् । कक्षतीत्याकाळे पचाद्यच् । तिङन्तमिति । आकाक्षं तिङन्तमित्यर्थः । अङ्ग कृज३ इति । अङ्गशब्दोऽमर्षे । कूज अव्यक्त शब्दे। लोण मध्यमपुरुषेक. वचनम् । ज्ञास्यसि जाल्मेति । कूजनफलमस्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्ग देवदत्तेति । अङ्गशब्दोऽत्रानुनये। अङ्ग देवदत्तेत्येकं वाक्यम् । एतच मिथ्या वदस्येतदपेक्षते । विचार्यमाणानाम् । 'कोटिद्वयस्पृग्विज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ।' इह तु विचार्यमाणविषयत्वाद्वाक्यानि विचार्यमाणानि । गृहाइति । सप्तम्येकवचनान्तस्य गृहे इत्यस्य 'एचोऽप्रगृ. गृह्यस्येति प्लतविकारः । पूर्व तु । पूर्वेणेव सिद्धे किमार्थमिदम् । तुशब्दस्त्वर्थतोऽ. वधारणार्थः । यथैवं विज्ञायेत पूर्वमेव प्लत इति मैवं विज्ञायि पूर्व भाषायामेवेति । उदाहरणे तुशब्दो वितर्के । प्रतिश्रव । प्रतिश्रवणार्थमाह अभ्युपगमे इत्यादि। अङ्गीकारे इत्यर्थः । प्रतिज्ञाने इति । अत्रोभयत्रापि गतिसमासः। अर्थद्वयेऽपि 'वाक्यस्य टे'रित्यधिकारेप्यत्रानन्त्यस्य भवति । वाक्यादेरेव पद स्य भर्सने द्वित्व. विधानात् । 'उपलक्षण मिति । तत्रैकैकस्येत्यनुवृत्त्या पर्यायलाभः । अङ्गयकम्। श्राकाक्तीत्याकाङ्क्षम् , पचाद्यच् । इदानीमिति । कूजनफलमिदानीमेव ज्ञास्यसीत्यर्थः । 'अङ्ग'शब्दोऽमर्षे । प्रत्युदाहरणे त्वनुनये । 'अङ्ग ! देवदत्ते'त्यकं वाक्यम् । एतच्च 'मिथ्या वदसी'त्येतदपेक्षते। विचार्य । कोटिद्वयस्पृक्ज्ञानं विचारः, तादृशज्ञानविषयीभूतो विचार्यमाणः । इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृहा३ इ इति । गृहेशब्दस्य प्लुतविकारः । पूर्वन्तु । पूर्वमेवेत्यर्थः । उदाहरणे 'नु' शब्दो वित। प्रतिश्रवणम्-अभ्युपगमः, प्रतिज्ञानम् , श्रवणाभि