________________
अष्टमोऽध्यायः] सुबोधिनी-शेखरसहिता। [४४१ एषामादेः प्लुतो यज्ञकमणि । अग्नयेऽनुब्राहि । अग्नये गोमयानि प्रे३व्य । अस्तु श्रौषट् । सोमस्याग्ने वीही वौषट् । अनिमा३वह । ३६११ अग्नीत्प्रेषणे परस्य च । (८-२-६२) अग्नीधः प्रेषणे भादेः प्लुतस्तस्मात्परस्य च ।
ओ३श्रा३वय । ३६१२ विभाषा पृष्टप्रतिवचने हेः । (८-२-६३) प्लुतः। 'अकार्षीः कटम् । अकार्ष हि३ । अकार्ष हि । पृष्टेति किम्- कटं करिष्यति हि। हैः किम्-कटं करोति ननु । ३६१३ निगृह्यानुयोगे च । (८-२-६४) अत्र यद्वाक्यं तस्य टेः प्लुतो वा प्रथामावास्येत्यास्थ३ । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुप्रयुज्यते । ३६१४ आर्गेडितं भर्त्सने । (-२-१५) दस्यो३ दस्यो३ घातयिष्यामि त्वाम् । पानेडितग्रहणं द्विरुक्कोपलक्षणम् । चौरक्ष याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपाः तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति, स चान्तस्यैवेष्यते तदर्थमन्तग्रहणमिति भावः । अग्नीत्प्रेषणे परस्य च । अग्नीधः प्रेषणममीत्प्रेषणं तदाह अग्नीधःप्रेषण इति । विभाषा पृष्टप्रतिवचने । विभाषा हे: प्लुतो भवति । निगृह्या । निगृह्येति ल्यबन्तम् । स्वमतात्प्रच्यवनं निग्रहः तस्यैव स्वमतस्य । एवं किल त्वं निरुपपत्तिकमात्थेति शब्देन प्रतिपादनमनुयोगः तत्र यद्वाक्यं तदाह अत्र यद्वाक्यमिति । निगृह्यानुयोगे पद्वाक्यमित्यर्थः। अद्यामावास्येत्येवं केनचित्प्रतिज्ञातं तमुपपत्तिभिर्निगृह्य साभ्यसूयमनुयुङ्क्ते । अद्यामावास्येत्यात्थेति । तदेव विवृणोति अमावास्येत्येवमित्यादि । दस्यो३दस्यो३इति । 'वाक्यादेरामन्त्रितस्य इत्यादिना द्विवचनम् । ननु द्विरुक्तसमुदाये परभागस्यैव प्लुतः प्राप्नोति न तु पूर्वस्य 'तस्य परमानेडितम्' इति परभागस्यैवानेडितसंज्ञाविधानाद् इष्यते द्वयोरपीत्याह
आमेडितग्रहणमित्यादि । द्विरुक्लोपलक्षणार्थमिति । द्विरुक्तसमुदाये नुस्वधा' इति प्रैषेऽपि प्लुतो भवति, एवं श्रौषट्स्थानापन्ने 'अस्तु स्वधेति प्रत्याश्रावणेऽपि भवति, एवं वौषडिति [वोषट् ] वौषट् वौखट वौक्षाडित्येवंविधसर्ववषटकाराणामुपलक्षणमिति हरदत्तः । 'श्रावह देवान् यजमाने'त्यादौ न प्लुतः, छन्दसि सर्वविधीनां वैकल्पिकत्वात् । तस्मादिति। आदिभूतादित्यर्थः । 'ओ३ श्रा३ वय' 'श्रा३ श्रा३ वय' इत्यनयोरेवायम्। नेह-'अग्निदमीन्विहरे'ति । प्लुतमात्रस्य वैकल्पि. कत्वात्सिद्धमिदम् । आ३ ख ३धेति प्रत्याश्रावणे तत्स्थानापन्नत्वाद्भवत्येव । पृष्टप्रतिवचनं प्रश्नोत्तरम् । निगृह्येति ल्यबन्तम् । वादिनं स्वमतात्प्रच्याव्येत्यर्थः । अनुयोगः यस्मादसौ प्रच्यावितस्तस्य पक्षस्य शब्देन प्रकाशनम्-'एवन्त्वं निरुपपत्तिकमात्येति । आडितं भ । ल्यबन्ते उदाहरणे 'वाक्यादेरामन्त्रितस्येति द्वित्वम् ।