________________
४४० ]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया येश्यजामहे । यजेति किम्-ये यजामहे । ३६०८ प्रणवष्टेः । (८-२-८६ ) यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अयां रेतांसि जिन्वतो३म् । टेः किम्हलन्ते अन्त्यस्य माभूत् । ३६०६ याज्यान्ताः । (८-२-६० ) ये याज्या मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञकर्मणि । जिह्वामने चकृषे हव्यवाहा३म् । अन्तः किम् - याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टेः स्यात् । सर्वा. न्तस्य चेष्यते । ३६१० वहिप्रेष्यश्रौषड्वौषडावहानामादेः । (८-२-६१)
-
अत्र प्लुतश्रुत्याच्परिभाषोपस्थानादच एव प्लुतः। मकारस्त्वर्धमात्रः इति समुदायो. ऽध्यर्धतर्यमात्रः संपद्यते । ये यज्ञ । ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति । प्रणवः। यज्ञकर्मणीति वर्तते । यज्ञकर्मणि टेः प्रणवादेशः स्यात् । तदाह यज्ञकर्माणीत्यादि । जिन्वतोमिति । जिविः प्रीणनार्थः । लट तिपटेः प्रणवादेशः । टेः किमिति । 'वाक्यस्य टे:-' इत्यतः टेरित्यनुवर्तमाने पुनष्टेग्रहणं किममिति प्रश्नः । असति हि टिग्रहणे 'अलोऽन्त्यस्य' इति वचनाः योऽन्त्योऽल् तस्यौकारः स्यात् । तस्मात्सर्वादेशार्थ टिग्रहणमित्याह हलन्तेऽन्त्यस्य माभूदिति। अजन्ते विशेषाभावाद्धलन्ते इत्युक्तम् । याज्यान्तः । ये याज्या मन्त्रा इति । याज्याकाण्डे पठयन्ते ये मन्त्रा याज्यानुवाक्याकाण्डमिति समाख्याते प्रकरणे ये मन्त्रा इत्यर्थः । तेषामिति । मन्त्राणामित्यर्थः । तासामिति पाठे तासा याज्यानाम् । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्विशेषणं वा। श्राद्य चान्ते विशेषिते अजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनथक टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह अन्तः किमिति । इतरोऽपि विदिताभिप्राय आह याज्यानामृचामिति । यज्ञेतिकिम् ? स्वाध्यायकाले माभूदिति । 'ये यजामहे' इत्यत्रैवाऽयं प्लुत इष्यते । तेनेह न- ये देवासो दिव्येकादश स्थः' इति । 'पित्र्यायां ये३स्वधा' इत्यत्रापि भवति, एतत्स्थानाऽऽपन्नत्वात्तस्य । प्रणवष्टेः। टिस्थानिकस्त्रिमात्र श्रोकार श्रोङ्कारो वा प्रणव इति भाष्यादौ स्पष्टम् । इदच्चाथर्वणप्रातिशाख्येऽपि स्पष्टम । टेरिति तु प्रातिशाख्योक्तटिस्थानिकत्वानुवादः । हलन्ते इति । तदभावे टेरेत्यनुवृत्त्या तदन्त्यस्यैव स्यात् । व्यभिचाराऽभावाद्धि प्रणवः प्लुतत्वेन न विशेष्यते येनाऽपरिभाषाप्रवृत्त्याऽदोषः स्यादिति भावः । याज्या मन्त्रा इति । 'याज्यानुवाक्याकाण्ड'मिति समाख्यातप्रकरणस्था इत्यर्थः । अन्तः किमिति । 'यद्यन्तग्रहणं टेरित्यस्य निवृत्त्यर्थन्तदा प्लुतश्रुयोपस्थितेनाऽचाऽन्ते विशेषितेऽजन्ताया एव याज्यायाः स्यात् , टिविशेषणत्वे त्वनर्थकम्, टेरन्तत्वाऽव्यभिचारादिति प्रश्नः । ब्रहि प्रे । ब्रूहिस्थानापन्न 'पिव्यायाम