________________
अष्टमोऽध्यायः ] सुबोधिनी-शेखरसहिता। [४३६ त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गूरी इत्यस्य । ३६६४ अनरूधरवरित्युभयथा छन्दसि (८-२-७० ) रुर्वा रेफो वा । अन्न एव । अम्नरेव । ऊधएव । ऊधरेव । अवएव । अवरेव । ३६०५ भुवश्च महाव्याहृतेः। (८-२-७१) भुवइति । भुवरिति' । ३६०६ अोमभ्यादाने । (८-२-८७ ) ओशब्दस्य प्लुतः स्यादारम्भे । श्रो३म् अग्निमीळे पुरोहितम् । अभ्यादाने किम् - प्रोमित्येकाक्षरम् । ३६०७ ये यज्ञकर्मणि । (८-२-८८) षत्वम् । अनुत्तमिति । अनुन्नमिति भाषायाम् । एतन्निपातनारम्भसामर्थ्याद्भाषायां 'नुदविदोन्दत्रा-' इति विकल्पो नेत्याहुः । प्रतूर्तमिति। यदा त्वरतेस्तदा 'ज्वरत्वर-' इत्यादिना ऊर। यदा तुर्वी हिंसायामित्यस्य तदा राल्लोपः। स इत्यस्यति । निपातनादुत्वम् । रपरत्वं तु 'उरए रपरः' इत्येव सिद्धम् । कार्यकाल पक्षाश्रयणेन परिभाषाणामसिद्धत्वप्रकरणेऽपि प्रवृत्तेः । गतमिति । गूर्णमिति भाषायाम् । अम्न । उभयथेति व्याचष्टे । रुर्वा रेफो वेति । 'ससजुषो छः' इति नित्यं रुत्वे प्राप्ते पक्ष रेफादेशार्थमिदम् । अन्नसशब्द ईषदर्थे । अन्नरस्तमितमिति यथा अवो रक्षणम् । अम्न एवेति। यदा रुत्वं तदा 'भोभगो-' इति रोर्यत्वं 'लोपः शाकल्यस्य' इति लोपः । भुवश्च । महाव्याहृतेर्भुवस् इत्येतस्य छन्दसि विषये रुवा रेफो वा । तिस्रो महाव्याहृतयः पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः । इह तु मध्यमाया ग्रहणम् । महाव्याहृतेरिति किम् । भुवो विश्वेषु भुवनेषु । तिङन्तमेतद्भवतेः 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् सिप् शपि गुणाभावश्छान्दसः । 'बहुलं छन्दस्यमाङयोगेऽपि' इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्ध महाव्याहृत्तिग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्, तेन कापयतीत्यादौ युक् सिध्यति । भुव इति । भुव इत्येतदव्यय. मन्तरिक्षवाचि महाव्याहृतिः । ओम । अभ्यादानमारम्भः । तदाह आरम्भ इति । 'सदिरप्रतेः' इति षत्वम् । अवो-रक्षणम् । भुवश्च म । रुर्वा रेफो वा । महाव्याहृतोरिति किम् ? भुवो विश्वेषु सवनेषु । भवतेः 'छन्दसि लुङ्लब्लिट' इति वर्त। माने लङ् । सिप शप् । अगुणश्छान्दसः । तत एवाऽडभावः । ओम । अभ्यादानम्-आरम्भः. तत्र वर्तमानस्येत्यर्थ इति वृत्तिः। 'न सुब्रह्मण्यायामिति सूत्रे कैयटस्तु 'सब्रह्मण्यो'मित्यत्र 'श्रोमभ्यादाने' इति प्लुतोदात्तत्वं न भवति, तस्याऽयज्ञकर्मविषयत्वा'दिति वदन्नप्रारम्भेऽपि अनेन प्लुतमाह । अत एव शुद्धप्रणावजपेऽपि तं प्लुतमेव जपन्ति । अभ्यादानपदेनाऽयज्ञकर्मोच्यते इति तदाशयं वर्णयन्ति । प्लुतश्रुत्या 'अचः' इत्युपस्थितेरचः प्लुतः, मकारस्वर्दमात्र इति अर्धचतुर्थमात्रोऽयम् । ये यज्ञकर्मणि ।