________________
४३८ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया तोर्नुट् स्यात् । अक्षण्वन्तः कर्णवन्तः । अस्थन्वतं यदनस्था । ३६०२ नाद्धस्य। (८-२-१७) नान्तात्परस्य घस्य नुट् । सुपथिन्तरः । * भूरिदानस्तुड्वाच्यः । भूरिदावत्तरो जनः । * इद्रथिनः । स्थीतरः । रथीतमं स्थीनाम् । ३६०३ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (८-२-६१ ) सदेनजपन्निपूर्वाच्च निष्ठायां नत्वाभावो निपास्यते । नसत्तमञ्जसा। निषत्तमस्य चरतः। श्रसन्नं निषण्णमिति प्राप्ते । उन्देर्नपूर्वस्यानुत्तम् । प्रतूर्तमिति
स्येवेदं विधानमित्याहुः । छन्दसीरः । हरिवते इति । हरयो विद्यन्ते यस्येति हरिवान् तस्मै । हारेशब्दान्मतुप् मकारस्य वकारः। गीर्वानिति । वोरुपधाया दीर्घ इकः' इति दीर्घः । अक्षण्वन्त इति । अक्षिशब्दान्मतुप 'अस्थिदधिसक्थ्यदणामनदात्तः' । 'छन्दस्यपि दृश्यते' इत्यनङ् । नुटोऽसिद्धत्वात्पूर्व नलोपे भूतपूर्वगत्या नुट् णत्वम् । ननु यदि परादिर्नु क्रियते तस्य मतुवग्रहणेन ग्रहणाद् 'मादुपधाया:-' इति वस्वं मतुपस्तु न स्याद् नुटा व्यवधानात् । यदि तु पूर्वान्तो नुट् क्रियते तर्हि णत्वं न स्यात् । ‘पदान्तस्य' इति निषेधादिति चेत्सत्यम् । नुटोऽसिद्धत्वानोक्तदोषः । नन्वेवमवग्रहे दोषः स्यात् । अक्षणिति णान्तं यवगृह्णन्ति अक्षेत्य. कारान्तमवग्रहीतुमुचितमिति चेत्सत्यम् । न लक्षणेन पदकारा अनुवाः पदकारैमिलक्षणमनुवर्तनीयं तस्माद्यथालक्षणं पदं कर्तव्यमिति महाभाष्ये स्थितम् । किंच ईयिवांसमित्यादौ पदत्वं विनापि अवग्रहः क्रियते। पूर्वेभिरग्मिनेत्यादौ सत्यपि पदत्वे न क्रियत इति । घस्येति। तरप्तमपोरित्यर्थः । 'तरप्तमपौ घः' इति तरप्तमपोघेसंज्ञाविधानात् । सुपथिन्तर इति । सुपथिन्शब्दात् 'द्विवचनविभज्योपपदे' इति तरप "नलोपः । तरपो नुट् तस्यानुस्वारः परसवर्णः । भूरिदान इति । भूरिदानः परस्य घस्य तुट वाच्य इत्यर्थः । भूरिदावत्तर इति । 'अातो मनिन्' इत्यादिना दाधा. तोर्वनिप् तदन्तात्तरप् 'नलोपः प्रातिपदिकान्तस्य' इाते नलोपः तुडागमः । ईदथिन इति । रथिन ईकारोऽन्तादेशो घे परे । रथीतर इति । रथशब्दाद् 'अत इनिठनौ' इति मत्वर्थीय इनिः । तदन्तात्तरप् नकारलोपे कृते इकारस्य ईकारादेशः। यदि तु नकारलोपापवादो नकारस्थान ईकारो विधीयते तदा तस्यासिद्धत्वादेकादेशो न स्यात् । रथीतममिति । इह पदकारा ह्रस्वान्तमवगृह्णन्ति । 'अन्येषामपि-' इति संहितायां दीर्घ इति तदाशयः। नसत्त । एताति छन्दसि विषये निपात्यन्ते । नत्वाभाव इति । 'रदाभ्याम्-' इति प्राप्तस्य । निषत्तमिति । 'सदिर प्रतेः' इति घस्येति । तरप्तमपोरित्यर्थः । नसत्तनि । एषां शब्दपराणां द्वन्द्वः। निषत्ते