________________
अष्टमोऽध्यायः ] सुबोधिनी - शेखरसहिता |
[ ४३७ गमश्च । दविद्युत दोद्यच्छोशुचानः । तरतः शतरि श्रौ श्रभ्यासस्य रिगागमः । स॒होर्जा तरित्रतः । सृपेः शतरि लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि गल् श्रभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावम्यासस्य चुस्वाभावो नीगागमश्च । वचयन्ती बेदागनीगन्ति कर्णम् । ३५६७ ससूवेति निगमे । ( ७-४-७४) सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चाध्वं निपात्यते । गृष्टिः ससूव स्थविर॑म् । सुषुवे इति भाषायाम् । ३५६८ बहुलं छन्दसि । ( ७-४-७८ ) अभ्यासस्य इकारः स्याच्छन्दसि । पू॒र्णां विव॑ष्टि । वशेरेतद्रूपम् । इति सप्तमोऽध्यायः ।
-
अष्टमोऽध्यायः ।
1
३५६६ प्रसमुपोदः पादपूरणे। ( ८-१-६) एषां द्वे स्तः पादपूरणे । प्रप्रायमभिः । संसमर्द्युवसे । उपोप मे परामृश । किं नोदुदु हर्षसे । ३६०० छन्दसीर: । ( ६-२-१५ ) इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय । गीर्वान् । ३६०१ अनो नुट् । ( ८-१-१६) अन्नन्तान्म
शतरि अभ्यासस्य संप्रसारणभावोऽत्वं च निपात्यते । तदाह द्युतेरिति । संप्रसारणाभाव इति । 'युतिस्वाप्योः संप्रसारणम्' इति प्राप्तस्य । ससूवेति निगमे । दाधर्त्यादिष्वेतत्पठितव्यम् । विवष्टीति । वश कान्तौ । लटि तिपि शपः लौ द्वित्वम् अभ्यासस्येत्वं 'वश्व - ' इति षत्वम्, ष्टुत्वम् ।
इति सुबोधिन्यां सप्तमोऽध्यायः ।
प्रसुमुपोदः पादपूरणे। समाहारद्वन्द्वः । समासान्तविधेरनित्यत्वाद् 'द्वन्द्वाच्चुदषहान्तात्' इति न टच् । प्रप्रायमग्निरिति । नात्र द्विर्वचनस्य किंचिद्दयत्यं केवलं पादपूरणमेव कार्यम् । न चैवंविधस्य भाषायां प्रयोगोऽस्तीति सामर्थ्याच्छन्द
तेरिति । यङ्लुगन्ताच्छतरीति शेषः । तरित्रत इति जसन्तम् । ‘नाभ्यस्ता'दिति नुम्न | 'मर्मृज्ये 'त्यत्र वृद्ध्यभावोपि छान्दसत्वात् । इतिशब्द एवंप्रकाराणामन्ये. षामपि सङ्ग्रहार्थः । ‘ससूवे’त्यपि दाधर्त्यादिष्वेव पठितुं युक्तमु । इकार इति ‘श्र्ला'विति शेषः । न च भवति ' ददातीत्येव ब्रूयादिति । इति सप्तमोऽध्यायः
"
अथ अष्टमोऽध्यायः । प्रसमु । समाहारद्वन्द्वः, श्रनित्यत्वान्न टच् समासान्तः