________________
४३६ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया भाषायां गुणो नम्यते । तिजेयंङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिः शेषापवादो रेफेस्य लस्वमिस्वाभावश्च निपात्यते । अलर्षि युध्म खजरपुरन्दर । सिपा निर्देशो न तन्नम् । अलर्ति दक्ष उत। फणतेरापूर्वस्य यङ्लुगन्तस्य शतरि अभ्या. सस्य नीगागमो निपात्यते । अन्वा पनीफणत् । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षस्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुस्वाभावः क्रन्देलङि चलेरद्विवचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिकदजनुषम् । अक्रन्दीदित्यर्थः । विभतेरभ्यासस्य जश्स्वाभावः । वि यो भरिश्रदोषधीषु । वरतेयङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोऋकारलोपश्च । दविधवतो रश्मयः सूर्यस्य । द्युतेरम्यासस्य संप्रसारणाभावोऽस्वं विगा.
निपात्य तस्यैव यङ्लुक्यभ्यासस्य रुगाद्यपवादकं दीर्घत्वं निपात्यत इति । दर्धर्ती. त्यत्र यङ्लुपक्षे दाधर्तीति निपातनेन प्राप्तस्य दीर्घस्याभावो निपात्यते। 'रुप्रिको च लुकि' 'ऋतश्च' इत्येव रुक् सिद्धः । श्लुपक्षे तु रुगपि निपात्यः। दर्धर्षीत्यत्र यङलुक्पक्षे न किंचिन्निपातनं किं तु श्लोवेव । भवतेय॑ब्लुगन्ताल्लोट् गुणाभाव इति । ननु 'भूसुवोस्तिति' इत्येव गुणनिषेधे सिद्धे निपातनमनर्थकमिति चेत्सत्यम् । ज्ञापकार्य तर्हि निपातनम् । एतज्ज्ञापयति अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भव. तीति । तेन बोभवीतीत्यत्र भाषायां गुणः सिद्धः । तदेतदाह तेन भाषायामिति । तिर्थब्लुक्यात्मनेपद निपात्यते । तदाह तिजेरिति । ऋ गती लटि सिपि 'श्लौ' इति द्वित्वम् । अभ्यासस्य हलादिःशेषापवादो रेफस्य लत्वं निपात्यते । 'अांतपि. पोश्च' इत्यभ्यासस्य प्राप्तस्येत्वस्याभावो निपात्यते । तदाह इयतैरिति । करोतेर्यलुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निपात्यते । 'ऋतश्व-' इति रिगा. गमः । तदाह करोतेरिति । चुत्वाभाव इति । 'कुहोश्चुः' इति प्राप्तस्य बिभर्तेर्यलुगन्तस्य शतरि अभ्यासस्य जश्त्वाभावो निपात्यते । तदाह बिभतरिति । जश्त्वाभाव इति । 'अभ्यासे चर्च' इति प्राप्तस्य । दविध्वत इति। ध्वरते. यङ्लुगन्तस्य शतरि रूपम् । 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । दुतेर्यलुगन्तस्य तेन भाषायामिति । लोडतिरिक्ते च 'बोभवीति' 'बोमोति' इति । 'यो वा' इति पक्षे ईट् । संपूर्वस्येति । 'संपूर्वत्वमतन्त्रम् , अासनिष्यदिति दर्शनादिति वृत्तिः । करोतेयलगन्तस्येति। 'शतरी'ति शेषः । रिक्तु 'रुनिको चे'ति सिद्धः । निगागमश्चेति । चादडभावः । बिभत्तरिति । 'यङ्लुगन्तस्य शतरीति शेषः ।