________________
सप्तमोऽध्यायः ] सुबोधिनी - शेखर सोहेता ।
[ ४३५
सुवसु नेम एतत्पूर्वस्य दधातेः कप्रत्यये इत्वं निपात्यते । गर्भ माता सुधितं वक्षसु । वसुधितमग्नौ । मर्धिता न पौंस्य । क्विन्यपि दृश्यते । उत श्वेतं वसु
1
17
-
धितं निरे॒के । धि॒ष्व वज्रं दक्षिण इन्द्र हस्ते । धत्स्वेति प्राप्ते | सुरेता रेतो धिषीय । श्राशीर्लिङ इट् । 'इटोऽत्' ( २२५७ ) धासीयेति प्राप्ते । 'अपो भि' ( ४४२ ) । * मासश्छन्दसीति वक्तव्यम् । माद्भिः । श॒रद्भः । * स्ववःस्वतव सोरुपसश्चेष्यते । स्वत्रुद्भिः । श्रवतेरसुन्, शोभनमत्रो येष ते स्ववसस्तैः | तु इति सौत्रो धातुस्तस्मादसुन् । स्वं तवो येषां तैः स्वतवद्भिः । समु॒षद्भि॑रजायथाः । मिथुनेऽसिः । वसे: किच्चेत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु उषः किदिति प्राग्व्याख्यातम् । 'न कवतेर्यङि' ( २६४१ ) । ३५६५ कृषेश्छन्दसि । ( ७-४-६४ ) यङि श्रभ्यासस्य चुत्वं न । करीकृष्यते । ३५६६ दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्लेऽलय पनीत्संसनिष्यदत्करिक्रत्कनिक्रदद्धरिभ्रद विध्वतोदविद्यतत्तत्रितः सरीसृपतं वरीवृजन्मर्मृज्याssगनीगन्तीति च । ( ७-४-६४ ) एतेऽष्टादश निपायन्ते । श्राद्यास्त्रयोङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन सामिपर्यायो नेमशब्द: । अयं कर्मधारयः । धत्स्वेति । श्राभ्यस्तयोरातः' इत्याकारलोपः । 'दधस्तथोश्च' इति भष्भावः । धिषीयेति । श्राशीतिङात्मनेपदोत्तमपुरुषैकवचने दधातेरित्वं निपात्यते । तदाह आशीर्लिङोति । माद्भिरिति । ‘पद्दन्नोमास्-' इति मासशब्दस्य मास्त्रादेशः । न कवतेरिति । अनुवृत्त्यर्थ उपन्यासः । करीकृष्यत इति । 'रुम्रिकौ च लुकि इति रीगागमः । लोके तु चरीकृष्यते कृषीवलः । धृङ इति । धृङ् अवस्थाने । धारयतेवैति । स एव एयन्तः । तत्र दाघर्तीत्यत्र धारयतेः शपः श्लौ णिलुक् श्रभ्यासस्य दीर्घत्वं च निपात्यते । धृङो वा शे प्राप्ते व्यत्ययेन शप् तत्र श्लावभ्यासस्य दीर्घत्वं च । अत्र परस्मैपदमपि
कर्मधारय इति हरदत्तः । नेम इत्यर्थे । नेमधिते कर्मधारयः । माद्भिरिति । 'पद्दन्नो' इति मासस्य मासादेशः । श्राद्यास्त्रय इति । धृङः शपः श्लुरभ्यासस्य दीर्घः परस्मैपदञ्च निपात्यते धारयतौ तु श्लुणिलुगभ्यासदीर्घत्वानि अन्त्ययोः श्लुणिलुम्रुगागमाः, धृङस्तु श्लुरुक्परस्मैपदानि । यद्वा धृङो यङ्लुकि रुगभावमात्रमाद्ये, तन्निपातनप्राप्तरुगभावस्य बाधाय दर्घर्तीत्यत्र रुग्निपातनम् । दर्धर्षीत्यत्र तु यब्लुक्पक्षे न किचिन्निपात्यम्, किं तु श्वावेव । यङ्लुगन्तस्येति । 'लोटी 'ति शेषः ।
6