SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३४ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया वृषीयति । रिष्टीयति । ३५६० अश्वावस्यात् । (७-४-३७) अश्व अघ एतयोः क्यचि प्रात्स्याच्छन्दसि । अश्वायन्तो मघवन् । मारवा वृका अघा. यवः । 'न च्छन्दसि' (३५८८ ) इति निषेधो नेत्वमात्रस्य किंतु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् । ३५६१ देवसुम्नयोर्यजुषि काठके । (७-४-३८) अनयोः क्यचि प्रात्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हवामहे । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदो. पलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । कि च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुपीति किम्-देवाजिगाति सुम्नयुः । बचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः । ३५६२ कव्यध्वरपृतनस्यचि लोपः । (७-४-३६ ) एपामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये सर्वया निविदा कन्यतायोः। अध्वर्यु वा मधपाणिम् । दमयन्तं पृतन्युम् । 'दधातेहिः' ( ३०७६ ) 'जहातेश्च क्त्वि' (३३३१) ३५६३ विभाषा छन्दसि (७-४-४४) हित्वा शरीरम् । होत्वा वा। ३५६४ सुधित वसुधित नेमधित धिष्व धिषीय च (७-४-४५) बोध्यम् । अश्वायन्त इति । अश्वशब्दात् क्यच् । लटः शत्रादेशः । अघायव इति । छन्दसि परेच्छायां क्यच् । 'क्याच्छन्दसि' इत्युप्रत्ययः । इदमेव सूत्रं ज्ञापकमिति । अन्यथा दीर्घेणैव सिद्धत्वादात्ववचनमनर्थकं स्यात् । देवाझिगातीति । नन्विदं प्रत्युदाहरणमङ्गद्वयविकलम् । यजुषि काठक इत्यंशद्वयस्यापि तत्रा भावादित्याशङ्कयाह बह्वचानामप्यस्तीति । तत्रेदं दृष्टमिति भ वः । काठक इति किम् । यजुर्वेदे शाखान्तरे माभूत् । अन्यत्र सुम्नयुरिदमस्ति । कव्यध्वर । कवि अध्वर पृतना एषामन्त्यस्य लोपः स्यात् क्यचि परे ऋचि विषये । मृगव्वादिगणोऽ. ध्वर्युशब्दः पठ्यते तयत्पत्त्यन्तरं बोध्यम् । विभाषा । जहातेर.स्य विभाषा हि आदेशः स्यात् । हीत्वेति । हिआदेशाभावे 'घुमास्था-' इतीत्वम् । क्वचित्तु हात्वेति पाठस्तत्र छान्दसत्वाद् 'घुमास्था-' इतीत्वाभावः । वसुधिमिति । कर्मधारय इति हरदत्तः । वसूनां धातारं प्रदातारमित्यर्थ इति वेदभाष्यम् । नेमधितमिति । अपुत्रादीनामिति । अादिग्रहणस्य प्रयोजनान्तरं मृग्यमिति हर दत्तः। यजुर्वेदस्थे । यजुर्वेदीयकठशाखास्थे । कन्यध्वर । कव्येत्युदाहरणम् । विभाषा । जहातेहिर्वा स्यात् क्वि । 'हात्वेति पाठे छान्दसत्वादीत्वाऽभावः । वसुधितमिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy