________________
४३२]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया पठन्ति । तत्र समूष सहने इति धातुर्बोध्यः। भाषायां तु ग्रस्तस्कब्धस्तब्धी.
तब्धचतितविकसिताः। विशसिताः । शंसिता । शासिता। तरीता। • तरिता । वरीता। वरिता। उज्वलति । क्षरति । पाठान्तरे, क्षमति । वमति । श्रमति । । बभूथाऽऽततन्थजगृम्भववर्षोते निगमे (२५२७)। विमा तमुत्सं यत प्राबभूयं । येनान्तरिक्षमुत्तिन्य । जगृम्भा ते दक्षिणमिन्द्र हस्तम् । वं ज्योतिषा वितमो ववर्थ । भाषायां तु बभूविथ । अातेनिथ । जगृहिम । वरिथेति । ३५८३ सनिससनिवांसम् । (७-२-६६ ) सनिमित्येतस्पूर्वात्सनतेः सनोतेर्वा कसोरिड् एवाभ्यासलोपाभावश्च निपात्यते । प्रश्चिस्वाग्ने सनिससनिवांसम् । ॐ पावकादीनांछन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् । (वा. ४५२७) हिरण्यवर्णाः शुचयः पावकाः। ३५८४ घोर्लोपो लेटि वा । (७-३-७० ) दधनानि दाशुषे । सोमो ददद्गन्धर्वाय । यदग्निरग्नयेददात् । ३५८५ मीनातेनिगमे । (७-३-८१) शिति हस्वः । प्रमिणन्ति व्रतानि' । लोके प्रमीणन्ति । 'अस्तिसिचोऽपृक्ते' ( सू.२२२५ )। ३५८६ बहुलं छन्दसि । (७-३-६७ ) सर्वमा:इदम्। श्रासीदिति प्राप्ते । [ अस्ते. 'ऋन्नेभ्यः-' इति विहितेन । बभूथा। निगमो वेदः । एषां वेद इडभावो निपात्यते। वृषः क्रादिसूत्रेण्डभावे सिद्धे निगम एवेति नियमार्थ निपातनम् । तदेतदाह भाषायां तु वव. रिथेति । सनिस । सनिपूर्वात्सनतेः सनोतेर्वा सनिससनिवांसमिति निपात्यते । कसोरिडिति । 'नड्वशि कृति' इति निषेधे प्राप्ते निपातनम् । पावका इति । पुनन्ति पावयन्ति वा पावकाः । पुनातेः पावयतेर्वा एबुल् टाप् । दधदिति । दधा. तेर्लेट तिप् 'श्लौ' इति द्वित्वम् । दधाति इति स्थिते आकारलोपः। 'लेटोऽडाटी' इत्यडागमः । 'इतश्च लोपः परस्मैपदेषु' इतीकारलोपः। दाशुषे यजमानाय रत्नानि दधत् । दधादित्यर्थः । दददिति ददाते रूपम् । लोपाभावे उदाहरणमाह ददादिति । मीनातेः । 'प्वादीनां हवः' इत्यतो ह्रख इति वर्तते । तदाह शिति हस्व इति । प्रमिणन्तीति । 'हिनुमीना' इति णत्वम् । आ इदमिति । अस्तेर्लङ् तिप् दीकारोऽपि । वित्तमभ्यमीति वरुण इतिवृत्तिः । सनिस । 'सनि'मित्यस्य छान्दसत्वादानुपूा अविवक्षितत्वाच्छन्दस्वैतन्निपातनम् । पावका इति । पुनन्ति पाव. यन्ति वेत्यर्थः । घोर्लोपो। घुसज्ञकानां लेटि परतो लोपो वा । दधातेर्ददातेश्व लेट् । तिप् । 'इतश्च लोपः परस्मैपदेषु' इतीकारलोपः। लोपेऽप्याडागमेन 'ददा'