SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः] सुबोधिनी-शेखरसहिता । [४३१ चत्तविकस्ताविशस्तृशंस्तुशास्तृतरुततरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलि. तिक्षरितिवमित्यमिति च । (७-२-३४) अष्टादश निपात्यन्ते । तत्र प्रसु स्कम्भु स्तम्भु एषामुदित्वानिष्ठायामिप्रतिषेधे प्रासे इग्निपात्यते । युवं शचीभिप्रेसिताममुञ्चतम् । विष्कभिते अजरे। येन स्वः स्तमितम् । सत्येनोत्तमिता भूमिः। स्तभितेत्येव सिद्ध उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ। श्राम्यां क्लस्येडभावः । चत्ता इतश्चत्तामुतः । त्रिधा ह श्वावमश्विना विकस्तम् । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचन विकस्ता इति। तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्वष्टुरश्वस्याविशस्ता । ग्रावग्राम उत शंस्ता । प्रशास्ता पोता । तरते.... वृजोश्च तृच उट् उट् एतावागमौ निपात्येते। तरुतारं रथानाम् । तरूतारम् । वरुतारं, वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु । अत्र जीवन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः। ततो हीपा गतार्थत्वात् । उज्वलादिभ्यश्चतुभ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ। तर संचलने । टुवम उद्विरणे । श्रम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित् याचने । कस गतौ । शसु हिंसायाम् । शंसु स्तुतौ। शासु अनुशिष्टौ। तृ प्लवनतरणयोः । वृङ संभक्तौ । वृञ् वरणे । ज्वल दीप्तौ । क्षर संचलने । क्षमूष सहने । टुवम् उद्गिरणे । अम गत्यादिषु । अष्टादशेति। नमितेः पाठपर्वे तु एकोनविं. शतिः । उदित्त्वान्निष्ठायामिप्रतिषेधे प्राप्ते इति । 'उदितो वा' इति क्त्वायां वेटत्वाद् 'यस्य विभाषा' इति निषेधे प्राप्ते इत्यर्थः । विष्कभित। 'अनिदिताम्-' इति नलोपः । वेः स्कन्नातनित्यम्' इति षत्वम् । उत्तभितेति । 'उदः स्थास्तम्भो:-' इति पूर्वसवर्णः । सकारस्य थकारः। तस्य 'झरो झरि सवर्णे इति लोपः । अन्योपसर्गपूर्वस्य माभूदिति । यदि स्याद् उत्तभितग्रहणं व्यर्थ स्यात् । चत्ता इति । चत्तशब्दाथापि उना सह आद्गुणः निपातेन सह एकीकृत्य छेदस्तु पदकाराण संप्रदायसिद्धः। 'भूयामो' इति मन्त्रे भूयामो इति यथा। निपातनं बहुत्वापेक्षमिति । तेन छान्दसः प्रयोग एकवचनान्तोऽप्युदाहृत इति भावः । अश्वस्याविशस्तति । 'अन्येषामपि-' इति पूर्वपदस्य दीर्घः। तत ङीपा इति। 'उदस्थेति पूर्वसवर्णः । माभूदिति । इणिति शेषः। सूत्रे इतिः प्रकारे । तेन कचि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy