________________
४२८ ]
सिद्धान्तकौमुदी
[ वैदिकीप्रक्रिया
बहुवचनस्य स्थाने तारस्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते । सूर्य चतुर्गमयतात् । गमयदेति प्राप्ते । ३५६७ तप्तनप्तनथनाश्च । ( ७-१-४५) तस्येत्येव । शृणोत॑ प्रावाणः । शृणुतति प्राप्तं तप् । सुनोतन पचत ब्रह्मवाहसे । दधा॑तन॒ द्रविणं चि॒ित्रम॒स्मे । तनप् । मरुतस्तज्जु॑जुष्टन । जु॒षध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वदेवासो मरुतो यतिष्ठनं । यत्संख्याकाः स्थेत्यर्थः। यच्छउदाच्छन्दसो इतिः, श्रस्तेस्तस्य थनादेशः । ३५६८ इदन्तो मसि । ( ७-१-४६) मीयविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त॒ एम॑सि । स्वमस्माकं तवं स्मसि । इमः स्मः इति प्राप्ते । ३५६६ क्त्वो यक् । (७-१
1
1
दृष्टानुविधानात् । पूर्वोत्तराभ्यां बहुवचनाभ्यां साहचर्याच्च । कृणुतादिति । कृवि हिंसाकरणायोश्च । 'धिन्विकृराव्योर च' इत्युप्रत्ययः वकारस्य चाकारः । अतो लोपः । गमयतादिति । गमेर्णिच् । ‘जनीजृष्-' इति श्रमन्तत्वान्मित्संज्ञायां मित ह्रस्वः॒ः लोरमध्यमपुरुषबहुवचनस्य तादेशः । तप्तनप्त । तस्य स्थाने एते आदेशा स्युः । शृणोति । श्रु श्रवणे । 'श्रुवः शृ च' इति श्नुप्रत्ययः श्रभावश्च । पित्त्वेनाङित्वाद् गुणः । सुनोतनेति । षुञ् अभिषवे 'स्वादिभ्यः श्नुः' त इत्यस्य तनप् । दधातनेति । अत्राप्यङित्त्वात् 'श्राभ्यास्तयोः -' इत्याकार लोपाभावः । इदन्तो । अन्तशब्दोऽवयववचनः । इत् अन्तो यस्य स इदन्तः । तपरकरणमसंदेहार्थम् । तथा चायमर्थो मस् इत्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य इसागमो भवति स च तस्यान्तो भवतीत्यर्थस्तदेतदाह मस् इत्ययमिति । तत्र यदि सकारो - पमर्दैन इकारान्तत्वमभिप्रेतं स्यात्तर्हि मस् इदिति वाच्यं स्यात् । तस्मादवस्थित एव सकारे इकार उपसञ्जनीयः । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते । ततश्च टित्त्वकिरवादेरागमलिङ्गस्याभावेऽप्यर्थादागमोऽयं संपद्यते, तदेतद्ध्वनयन्नाह मस इगागमः स्यादिति । एवं च मस इगिति वक्तव्यं प्रत्याहारसंदेहप्रसङ्गात्तथा नोक्तम् । एमसीति । इण् गतौ मस् तस्य इकारः श्रन्तावयवः । स्मसीति । श्रस्तेर्मस् 'नसोर
छन्दसि दृष्टानुविधानादाह मध्यमपुरुष इति । कृणुतादिति । 'धिन्विकृण्व्योर चे'त्युप्रत्ययः । वस्याऽकारेऽतो लोपः । शृणोति । पित्त्वेनाऽङित्त्वाद् गुणः । अत एव 'दधातने 'त्यत्र 'नाभ्यस्तयो' रित्या लोपो न । थादेशस्येते श्रादेशाः । यतीत्यस्य व्याख्या । यत्सङ्ख्याका इति । यतिष्ठनेति । सुषामादित्वात् षत्वम् । एम